पृष्ठम्:अद्भुतसागरः.djvu/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
अद्भुतसागरः।

पराशरः ।
 रविरश्मयो रूक्षा विच्छिन्नास्तनवो ह्रस्वा धूम्राभा लोहिता विवर्णा गर्हिताः । स च निष्प्रभो जनमारकरः ।
अस्यार्थः । सप्रभो रविस्तस्य रश्मयो रौक्षादिदोषयुक्ता विगर्हिताः । तथाविधेषु रश्मिषु निष्प्रभो रविर्जनमारकर इति ।
तथा चोत्तरकाण्डे इन्द्रपराजयनिमित्तम् ।

 "भास्करो निष्प्रभश्चैव”*[१]

वनपर्वणि भीमपराजयनिमित्तम् ।

 "निष्प्रभश्चाभवत् सूर्यश्छन्नरश्मिस्तमोवृतः”[२]– इति ।

मध्याह्नव्यतिरेकेणैतत् ।
अथ तामसकीलकादिफलम् । वराहसंहितायाम् ।

 तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् ।
 वर्णस्थानाकारैस्तान् दृष्ट्वाऽर्के फलं ब्रूयात् ॥

गर्गः ।  

 कृष्णाभाः कृष्णपर्यन्ताः संकुलाः कृष्णरश्मयः ।
 राहुपुत्रास्त्रयस्त्रिंशत् कीलकाश्चातिदारुणाः ॥

वराहसंहितायाम् ।

 ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ॥
 [३]तेषामुदये रूपाण्यम्भःकलुषं [४]रजःकृतं व्योम ॥
 तरुनगशिखरामर्दी सशर्करो मारुतश्चण्डः ।
 ऋतुविपरीतास्तरवो दीप्ता मृगपक्षिणो दिशां दाहाः ॥
 निर्घातमहीकम्पादयो भवन्त्यत्र चोत्पाताः ।
 म पृथक् फलानि तेषां शिखकीलकराहुदर्शनं यदि च ॥
 तदुदयकारणमेषां केत्वादीनां फलं ब्रूयात् ।


  1. *२८ सर्गे २८ श्लो.।
  2. १५५ अ. ३लो. ।
  3. 'ध्वाङ्क्षकृबन्धप्रहणरूपाः पाया: शशाङ्केऽपि' । इति अ. अधिकः ।
  4. रजोवृतम् इति अ. ।