पृष्ठम्:अद्भुतसागरः.djvu/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७
सूर्याद्भुतावर्त्तः ।

 स्मृतो धूमावृतो रूक्षो विरश्मिर्वृष्टिहा रविः ।।

उदयमिति सर्वत्र सम्बध्यते। उदय एव गर्गेणापि वर्णस्याग्निमयकरत्वप्रतिपादनात् ।
तथा च तद्वाक्यम् ।

 उदयेऽग्निशिखाप्रख्यः कुर्यादग्निमयं रविः।
 दृष्ट्वा तं रुधिरप्रख्यं संग्राममभिनिर्दिशेत् ॥

वराहसंहितायाम् ।

 *श्यावेऽर्के[१] । कीटभयं भस्मनिभो भयमुशन्ति परचक्रात् ।

बृद्धगर्गः ।

 श्यावे नीले च दुर्भिक्षं रजतार्चिःप्रभेऽशुभम् ।
 पीताभे च महाव्याधिः कृष्णे मृत्युभयं भवेत् ॥
 अनावृष्टिर्ध्रुवा तत्र षड्भिर्मासैर्न संशयः ।

पराशरः ।

 मयूरचन्द्रिकाभो द्वादशवार्षिकीमनावृष्टिं विधत्ते ।

गर्गश्च।

 मयूरचन्द्रिकाभो वा यदा भवति भास्करः ।
 पूर्णे तु द्वादशे वर्षे तदा वर्षति वासवः॥

विष्णुधर्मोत्तरवराहसंहितयोरप्येवम् । इदं चाशुभवर्णफलाभिधानमृतुस्वभावव्यतिरिक्तवर्णपरम् ।
वराहसंहितायाम् ।

 ऊर्ध्वं करोति दिनकृत् ताम्रः सेनापतिं विनाशयति ।
 पीतो नरेन्द्रपुत्रं श्वेतस्तु पुरोहितं हन्ति ॥

ऊर्धकरो दिवसकर इत्युत्पले विलिख्य व्याख्यातम् ।

 चित्रोऽथ वाऽपि धूम्रो रविरश्मिर्व्याकुलीकरो[२]त्युर्वीम् ।
 तस्करशस्त्रनिपातैर्यदि न सलिलमाशु पातयति ॥


  1. श्यामे- इति अ.
  2. त्यूर्ध्वम् इति अ.