पृष्ठम्:अद्भुतसागरः.djvu/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
अद्भुतसागरे।

तथा ।

 हितकृद्विप्रादीनां स्निग्धसितरक्तपीतकृष्णोऽर्कः ।
 रूक्षस्तद्भयकारी विकारमन्यं गतो यदि वा ॥

पराशरः ।
 रविर्विवर्णो भूरिवर्णोऽन्नाभावाय । श्यावो जनमरणाय । धूमाभो वृष्टिनिग्रहाय । ताम्रो रुधिराभो वा शस्त्रकोपं करोति । कृष्णवर्णो जगतः क्षयाय । व्यामिश्रवर्णो यावत् स दृश्यते तावत् परस्परविनाशाय । कृष्णरुधिरवर्णो जगत्क्षयकरः । वैडूर्यकृष्णबभ्रुवर्णः पांशुव*[१]र्णोत्सादकरः ।
वराहसंहितायाम् ।

 रुधिरनिभो वियत्यवनिपान्तकरो न चिरात् ।
 परुषरजोऽरुणीकृततनुर्यदि वा दिनकृत् ॥
 असितविचित्रनीलपरुषो जनघातकरः ।
 खगमृगभैरवस्वररुतैश्च निशाद्यमुखे ॥

वियति दशमे मध्याह्न इत्यर्थः । निशाद्यमुखे उदयास्तमयोरसितादिषर्णो जनधातकर इति ।
वृद्धगर्गः ।

 उदये नीलवर्णोऽर्को मृत्युरोगकरो भवेत् ।
 दुर्भिक्षं कृष्णकपिलः कृष्णादीनां च वर्धनः॥

कृष्णादीनामिति चौरादीनाम् ।
तथा ।

 वैडूर्यवर्णः सलिलं रक्तशस्त्रमुदीरयेत् ।
 परुषः कोपयेदृस्यून् धर्षणं चारुणप्रभः ॥
 ताम्रो वस्त्रभयं कुर्यादग्निवर्णोऽग्निजं भयम् ।


  1. वर्षणोत्पातकरः इति ख्र. ।