पृष्ठम्:अद्भुतसागरः.djvu/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
अद्भुतसागरे ।

वराहसंहितायाम्।

 दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात् कबन्धसंस्थाने ।
 ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे।।

तथा ।

 कीलकदण्डकबन्धध्वाङ्घायुधपीठसन्निभाः सूर्ये ।
 दुर्भिक्षनृपभयव्याधिचौरयुद्धान्यराज्याय ॥

गार्ग्यऽपि ।

 [१]*श्वशृगालाश्वकीलानां तथा धूमकबन्धयोः ।
 दर्शनं सूर्यविम्बे चेद्विनाशो भूपतेस्तदा ॥

वृद्धगार्ग्यः ।

 शृगालान् गर्दभातश्वाँस्तथाऽन्यान्मृगपक्षिणः ।
 आदित्यमण्डले दृष्ट्वा । देशभङ्गं विनिर्दिशेत् ॥

क्रव्यादमृगपक्षिदर्शने तु गर्गः ।

 मण्डलाभ्यन्तरस्थैश्च ऋव्यादमृगपक्षिभिः |
 परचक्रागमो वाच्यः प्रजानाशस्तथैव च ॥
 अहस्करे पताकादीन् प्रासादाँस्तोरणानि च ।
 सन्ध्ययोरुभयोः पश्येन्महदुत्पद्यते भयम् ॥

वराहसंहितायाम् ।

 राजोपकरणवर्णच्छत्रध्वजचामरादिभिर्विद्धः ।
 राजान्यत्वकुदर्कः स्फुलिङ्गधूमादिभिर्जनहा ॥

वटकणिकायाम् ।

 ज्वालास्फुलिङ्गधूमै जनक्षयः-इति ।

हरिवंश मत्स्यपुराणपद्मपुराणेषु हिरण्यकशिपुवधनिमित्तम् ।

 “अमुञ्चच्चासितां सूर्यो। धूमवर्त्ती महाभयाम्" [२]


  1. *स्वशृङ्गविदकीलानाम् इति क. । श्वशृगालार्बुदकीलानाम् इति ख. ।
  2. ४६ अ. १० श्लो, हरिवंशे ।