पृष्ठम्:अद्भुतसागरः.djvu/५९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९१
 

शल्यपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 "अश्रूणि मुमुचुर्नागा वेपथुश्चाभवद्भृशम्"[१]

अथ बृंहितफलम् । तत्र बृहस्पतिः ।

 सेनामध्ये तु यदा बृंहति शार्दूलबद्गजो दृष्टः ।
 भवति स्वसैन्यविजयस्तदा तु सङ्ख्ये नरेन्द्रस्य ॥
 कलहं सनादमधुरं किञ्चिच्चोत्क्षिप्तपुष्करस्तु यदा ।
 बृंहति वारणनाथस्तदा जयं नरपतिर्लभते ॥
 दशनविवर्त्तितहस्तस्तुरङ्गगम्भीरशङ्खनादसमम् ।
 बृंहति यदा तु हस्ती तत्रापि जयो भवेद्भर्त्तुः ॥
 मुखविवरकपोलगतं करं यदाऽपहृत्य गजो दृष्टः ।
 मधुरं गजहसितं तत् जयप्रदं भवति भूपानाम् ॥
 त्रीन् वारान् क्रौञ्चरवं हंसरवं बृंहितं यदा कुरुते ।
 एतदपि नागहसितं जयप्रदं भवति भूपानाम् ॥
 गर्जति कण्ठेन यदा घनो यथा वारणः प्रहृष्टमनाः ।
 मुखरन्ध्रनिविष्टकरस्तदा जयो जायते भर्त्तुः ॥
 उदरागृहीतसलिलं सशीत्करं बृंहितं यदा कुरुते ।
 भवति तदा नरनाथस्य शत्रुनाशः सुखेनैव ॥
 स्पृशति कराग्रेण यदा चरणतलं भ्रमरबृंहितं कुर्वन् ।
 स्मम्भे चालभ्य मुखं गमनं राज्ञस्तदा भवति ॥
 शुष्कतृणंकाष्ठकण्टकवल्मीकास्थिस्मशानदुष्टासु ।
 पाषाणाङ्गाराशुचिभूमिषु पादस्थिता करिणः ॥
 बृंहन्ति हीनलक्षणमसक्रुद्भर्तुस्तदा जयो नास्ति ।
 जयदाश्च शाद्वलानि दिवाकरस्योद्देशस्थिता नित्यम् ॥


  1. २३ अ, २४ श्लो, । तत्र 'वेपथुं चास्पृशन् भृशम्' ।