पृष्ठम्:अद्भुतसागरः.djvu/५९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८७
सर्वशाकुनाद्भुतावर्त्तः

बार्हस्पत्ये च ।

 प्रासादध्वजशालासु द्वारप्राकारतोरणे ।
 गृध्रवायसकङ्गानां नीडं दृष्ट्वा पुरं त्यजेत् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 "मूषिकान् शलभान् दृष्ट्वा प्रभूतं क्षुद्भयं भवेत्"। [१]

पराशरः ।

शुकशलभमूषकविडालपन्नगानामभिपतनं शस्यदुर्भिक्षाय ।

बार्हस्पत्ये तु ।

 काकमूषिकमार्जाराः सपतङ्गाः सहोरगाः ।
 अतीव बहुशो दृष्ट्वा दुर्भिक्षाय भयाय च ॥

पराशरः ।
 अथैन्द्र्यादिदिक्पतङ्गावरोधने राजापनयबलप्रकोपरोगपरचक्रागमगोपवधशस्यक्षयगोगजवधमादिशेत् कटाहादिगृहवत् -इति ।
वराहः ।

 सर्वे दुर्भिक्षकर्त्तारः स्वज्ञातिपिशिताशनाः ।
 सर्पमूषिकमार्जारा: पृथुरोमविवर्जिताः ॥

अत्र शान्तिर्मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 "मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
 देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ।।

गावश्च देया विधिवद्विजानां सकाञ्चना वस्त्रयुगोत्तरीय एवं कृते शान्तिमुप्रैति पापं मृगैद्विजैर्वा विनिवेदितं ।[२]
वराहस्तु ।

 मृगपक्षिविकारेषु कुर्याद्धोमं सदक्षिणम् ।
 देवाः कपोता इति च जप्तव्यं पञ्चभिर्द्विजैः ॥


  1. मत्स्यपुराणे २३७ अ. ९ श्लो
  2. मत्स्यपुराणे २३७ अ. १३-१४ श्लो. ।