पृष्ठम्:अद्भुतसागरः.djvu/५९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८६
अद्भुतसागर

वृद्धगर्गसंहिताबार्हस्पत्ययोः ।

 “प्रदोषे कुक्कुटो वाशेद्धेमन्ते चैव कोकिलः” [१]
 वसेत् पुरे वा ग्रामे वा तदप्याशु विनश्यति ॥

वराहसंहितायाम् ।

 कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापः ।
 श्येनाः प्ररुदन्त इव द्वारे वाशन्ति जम्बुका दीप्ताः ॥
 प्रतिलोममण्डलचराः श्येनायाश्चाम्बरे भयदाः ।

तत्रैव सन्ध्याप्रकरणे ।

 भैवरमुच्चैर्वाशन् मृगोऽसक्क्रुग्रामघातमाचष्टे ।
 रविदीप्तो दक्षिणतो महास्वनः सैन्यघातकरः ॥
 अपसव्ये संग्रामः सव्ये सेनासमागमः शान्ते ।
 मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः ॥

वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु ।

 पूर्वायामथ सन्ध्यायामप्रशान्तस्वरो मृगः ।
 ग्रामघातं समाख्याति ग्रामेणापरिवारितः ॥

वराहः ।

 पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम् ।

औशनसे तु ।

 गावोऽश्वाः कुञ्जराश्चैव खरोष्ट्रा वानरोरगाः |
 नकुलाः पक्षिणो व्याडा ये चाप्येवंविधाः पुनः ॥
 सत्वान्येतानि जल्पन्ते येषु देशेषु मानुषाः ।
 तेषु देशेषु राजा तु षष्ठे मासि विनश्यति ॥

xxxx ।

xकश्येनगृध्रोलूकादिभिरभीक्ष्णं निषेवणं नोडीकरणं xx ।


  1. पुराणे चापि २३७ अ. ५ श्लो. उपलभ्यते ।