पृष्ठम्:अद्भुतसागरः.djvu/५९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८२
अद्भुतसागरे

 त्यक्त्वा वा नगरं ग्राम्या व्रजन्ति निर्भया वनम् ।
 दिवारात्रिचरा वाऽपि पुरे ग्रामे न शब्दिताः ।
 रात्रौ पुरविनाशाय दिवा राजवधाय च ॥

दिवारात्रिचरा वेति चरन्तीन्ति सम्बन्धः ।
तथा च वराहः ।

 पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम् ।
 नक्तं वा दिवसचरा क्षपाचरा वा चरन्त्यहनि ॥

भयदा इति सम्बन्धः ।
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।

 ग्रामस्य मध्ये धावन्तो मृगा यदि महद्भयम् ।

वृद्धगर्गस्तु ।

 बालान् दन्तैर्यदाऽऽगृह्य ग्राममध्ये च धावति ।
 यतो मृगः पलायीत ततो मोक्षं विजानते ॥
 अस्थिकाष्ठमलातं वा चैलकेशास्थिभाजनम् ।
 श्मशानादाहरेद्ग्रामे मृत्यवे वा भयाय वा ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 “ग्राम्यास्त्यजन्ति च ग्रामं शून्यतां तस्य निर्दिशेत्”[१]

वृद्धगर्गसंहिताबार्हस्पत्ययोस्तु ।

 मृगपक्षिणौ वा नगरं त्यजन्ति सर्वशो यदि ।
 ब्राह्मणाः श्रवणा वाऽपि शून्यं भवति तत् पुरम् ॥

वसन्तराजः ।

xरण्यसत्वा मिलिता रुदन्तो ग्रामोपकण्ठे भयदा भवन्ति ।
xx पुनस्तैः परिवेष्ट्यमानो विवेष्ट्यते वैरिजनेन नूनम् ॥
xx भियेऽरण्यचरानुनादा रोधाय ते ग्रामचरानुशब्दाः ।
xxx रानुस्वनेन भीतिं वदन्ति वन्दिग्रहणप्रवृत्ताम् ॥


  1. मत्स्यपुराणे २३७ अ, ३ श्लो ।