पृष्ठम्:अद्भुतसागरः.djvu/५९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८३
नानामृगविहगाद्यद्भुतावर्त्तः।
अथ नानामृगविहगाद्यद्भुतावर्त्तः ।

तत्र पराशरः ।

 वृषतरुरुमृगचमरहरिणसिंहव्याघ्रादीनामारण्यानां स्वयमनुप्रवेशः पुरविनाशाय ।

वृद्धगर्गसंहिताबार्हस्पत्ययोः ।

 व्याघ्रान् सिंहान् सहरिणाँश्चमरान् पृषतान् रुरून् ।
 दृष्ट्वा प्रविष्टान् नगरे शून्यं भवति तत् पुरम् ॥

औशनसे तु ।

 रुरवश्च वराहाश्च[१] पृषता हरिणास्तथा ।
 येषु ग्रामेषु दृश्यन्ते तानरण्यात् विनिर्दिशेत् ॥
 प्रधानाश्चात्र बध्यन्ते पक्षे सप्तदशे तथा ।
 तस्मिन् जनपदे चैवमहदुत्पद्यते भयम् ॥

तथा ।

 देवदूता न हन्तव्या आरण्या ग्राममागताः ।
 तेषां बन्धे भवेद्बन्धो मोक्षे मोक्षो वधे वधः ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 "प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः ।
 अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलोद्भवाः
 स्थलजा वा जलं यान्ति घोरं वा शान्तिनिर्भयाः ।
 राजद्वारे पुरद्वारे शिवा चाप्यशिवप्रदा ॥
 दिवा रात्रिचरा वाऽपि रात्रावपि दिवाचराः”[२]

वृद्धगर्गसंहिताबार्हस्पत्ययोः ।

 मृगपक्षिण आरण्या विशन्ति निर्भयाः पुरम्


  1. 'शरभाश्चैव गोधाश्च' इति क्वचित् पाठः ।
  2. मत्स्यपुराणे २३७ अ, १-३ श्लो. ।