पृष्ठम्:अद्भुतसागरः.djvu/५७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६५
प्रसवाद्भुतावर्त्तः ।

 यमला यत्र जायन्ते नारीणां गजवाजिनाम् ॥
 हस्त्यश्वकपिवक्त्राश्च कूष्माण्डाकृतयस्तथा ।
 ब्रह्मशान्तिं ततः कुर्यादत्र ब्रह्मेति वायुना ॥
 अष्टोत्तरसहस्राणि पञ्चैव जुहुयाद्बुधः ।
 समिधां तु पलाशस्य तर्पयेत् पूर्ववद्द्विजान् ॥
 दासीदाससमायुक्तं गोधान्यफलसंयुतम् ।
 दद्याद्विप्राय तद्गेहं हुतान्ते भूरिदक्षिणाम् ॥
 फलपाकोद्भवश्चास्य मासाभ्यन्तरमात्रतः ।
 तथा चाष्टोत्तरं विद्वान् सहस्रं जुहुयाच्छुचिः ॥
 खदिराश्वत्थसमिधो विरूपाक्षेण मन्त्रतः ।
 दद्याच्च कपिलां धेनुं हुतान्ते कनकं तथा ॥

अथर्वमुनिः ।

 मास्यष्टमे स्त्रीप्रसव उत्पातो भौम उच्यते ।
 स्ववारे पूजयेद्भौमं दध्याज्यमधुसंयुतम् ॥
 जुहुयान्मृत्युसूक्ताभ्यां मधूकसमिधोऽयुतम् ।
 काञ्चनं वृषभं वस्त्रं दद्याद्विप्राय दक्षिणाम् ॥
 अचिराज्जायते जन्तुर्द्वित्र्यनेकशिरास्तथा ।
 सूर्याद्भुतं विजानीयात् पूजयित्वा दिवाकरम् ॥
 दध्याज्यमधुसंयुक्ताः समिधस्त्वर्कसम्भवाः ।
 यद्राजानं प्रभृतिभिर्जुहुयाद्घृतमेव च ॥
 धेनुं सुवर्णं वस्त्रं च दद्याद्धोमे च दक्षिणाम् ।
 सर्वदोषाः प्रशाम्यन्ति ततः संपद्यते शुभम् ॥
 नारी जनयते सर्पान् मण्डूकाँश्चाप्यमानुषान् ।