पृष्ठम्:अद्भुतसागरः.djvu/५६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५८
अद्भुतसागरे ।

 सर्वौषधैः सर्वगन्धैर्बीजैः पुष्पैः फलैस्तथा ।
 पञ्चगव्येन रत्नैश्च मृत्तिकाभिश्च भार्गव ॥
 स्थालीपाकेन धातारं पूजयेत् तदनन्तरम् ।
 सप्ताहं चात्र कर्त्तव्यं तथा ब्राह्मणभोजनम् ॥
 अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा ।
 काञ्चनं रजतं गावं भुवं चात्मानमेव च ॥

बृहस्पतिः ।

 बालानामष्टमे मासि षष्ठे वाऽपि ततः पुनः ।
 दन्ता यस्य विजायन्ते माता वा म्रियते पिता ॥
 बालकः पीड्यते तत्र स्वयमेव न संशयः ।
 दधिमधुघृताक्तानामश्वत्थसमिधां ततः ॥
 जुहुयादष्टशतं प्राज्ञः स्वमन्त्रेण तु मन्त्रवित् ।
 धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥

नारदः ।

 बालानामष्टमे मासि दशमेऽपि तथा पुनः ।
 दन्ता यस्य विजायन्ते माता वा म्रियते पिता ॥
 बालकः पीड्यते तत्र स्वयमेव न संशयः ।
 दधिमधुघृताक्तानामश्वत्थसमिधां ततः ॥
 जुहुयादष्टशतं प्राज्ञः स्वमन्त्रेण तु मन्त्रवित् ।
 धेनुं च दक्षिणां दद्यात् ततः संपद्यते शुभम् ॥
 दन्तजन्मनि सामान्यं शृणु स्नानमतः परम् ।
 भद्रासने निवेश्यैनं मृद्भिर्मूलैः फलैस्तथा ॥
 सर्वौषधैः सर्वबीजैः सर्वगन्धैस्तथैव च ।
 स्रापयेत् पजयेच्चात्र वह्निं सोमं समीरणम् ॥