मार्कण्डेयपुराणे ।
हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा पुनः ।
स्वां छायां विकृतां पश्येच्चतुष्पञ्च स जीवति ॥
चरकः ।
मुण्डज्योतिरनेकाग्रो दुश्छायो दुर्मनाः सदा ।
रतिं न लभते याता[१] परलोकं समान्तरे ॥
दुर्बलो बहुभुक्तो यः प्राग्भुक्त्वाऽन्नमनातुरः ।
अल्पमूत्रपुरीषश्च यथा प्रेतस्तथैव सः ॥
सुश्रुतः ।
मूत्रपुरीषवृद्धिरभुञ्जानानां मरणाय-इति सम्बन्धः ।
मूत्रादिकमरिष्टं स्वप्नाद्भुतावर्त्ते[२] लिखितम् ।
चरकः ।
निष्ठ्यूते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक् ।
यश्च सोदत्यपः प्राप्य न स जीवतुमर्हति ॥
कालावल्याम् ।
क्षुच्छकृन्मदमूत्राणि युगपत् सम्भवन्ति चेत् ।
तस्यामेव तिथौ तस्य वर्षेण मरणं भवेत् ॥
आदिपुराणेऽप्येवम् ।
चरकः ।
निष्ठ्यूतं च पुरीषं च रेतश्चाम्भसि मज्जति ।
यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः ॥
लिङ्गपुराणब्रह्माण्डपुराणयोः ।
सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवा ।
क्रोशन्त्यभिमुखाऽभ्येति स गतायुर्भवेन्नरः ॥
देवलश्चैवम् ।