पृष्ठम्:अद्भुतसागरः.djvu/५६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५५
कायरिष्टाद्भुतावर्त्तः।

विष्णुधर्मोत्तरे ।

 जले न पश्येच्च मुखं निर्मले दर्पणे तथा ।
 पश्येन्न पुरुषश्छायां सद्यो मरणमादिशेत् ॥

सुश्रुतस्तु

 ज्योत्स्नादर्शोष्णुतोयेषु यश्च च्छायां न पश्यति ।
 पश्यत्येकाङ्गहानां वा विकृतां वाऽन्यसत्त्वजाम् ॥
 श्वकाकङ्कगृध्राणां प्रेतानां यक्षरक्षसाम् ।
 पिशाचोरगनागानां भूतानां विकृतामपि ॥
 स्वस्थः स लभते व्याधिं व्याधितो मृत्युमृच्छति ।

कालावल्याम् ।

 स्वच्छायां दक्षिणे दृष्ट्वा तदैव मरणं दिशेत् ।

आदिपुराणे तु ।

सूर्योदये वाऽस्तमने च काले मध्याह्नकाले त्वथ दक्षिणस्याम् ।
देहच्छायां वीक्ष्य तनुं जहाति तस्मिन् दिनान्ते स्त्रियमेव दुष्टाम् ॥

चरकः ।

 छिन्नाऽछिन्नाऽकुला छाया हीना वाऽप्यधिकाऽपि वा ।
 नष्टतन्वी द्विधा छिन्ना विशरा विसृता च या ॥
 एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः ।
 सर्वा मुमूर्षुतां ज्ञेया न चेल्लक्ष्मनिमित्तजाः ॥

महाभारते मोक्षधर्मे ।

 "कृष्णश्यावच्छविच्छायः षण्मासान्मृत्यलक्षणम्"[१]

सुश्रुतस्तु

 श्यामा लोहितका नीला पीतिका वाऽपि देहिनाम् ।
 अभिद्रवति यं छाया स परासुरसंशयम् ॥


  1. शान्तिपर्वणि ३१७ अ. १३ श्लो. ।