पृष्ठम्:अद्भुतसागरः.djvu/५६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५४
अद्भुतसागरे ।

 यः पश्येदशिरस्कां वा मासादूर्ध्वं न जीवति ॥

आदिपुराणे ।

 पश्यन्नपश्यञ्जलदर्पणेषु वक्त्रं तथा स्पर्शनस्वेदनं च ।
 मासि प्रपूर्णे स च संप्रायाति लोकोत्तरं तत्र किमत्र चित्रम्[१]

लिङ्गपुराणे ।

 अप्सु वा यदि वाऽऽदर्शे यद्यात्मानं न पश्यति ।
 अशिरस्कं तथाऽऽत्मानं मासादूर्ध्वं न जीवति ॥

देवलस्तु ।

 अप्सु वा यदि वाऽऽदर्शे छायां पश्यति नात्मनः ।
 छायां वा विकृतां पश्यन्मासमेकं स जीवति ॥

मयूरचित्रे ।

 छायामशिरसं यश्च पश्येन्मासं स जीवति ।
 शान्तिर्दिव्या चतुर्थीह कर्त्तव्याऽतियशस्विनी ॥
 स्वच्छायां च न पश्येद्यः षण्मासान्न स जीवति ।
 शान्तिरेकादशी कार्या तत्र दिव्यप्रचोदिता ॥

नारदस्तु ।

 आत्मनश्चाशिरश्छायां नैव पश्येत् तु कर्हि चित् ।
 उत्पातमीदृशं दृष्ट्वा मासमेकं स जीवति ॥
 इमा रुद्रेति मन्त्रेण जुहुयात् सर्पिषा हुतिम् ।
 आहुतिर्द्वे सहस्रे तु होमश्च कथितो भवेत् ॥
 वृषभं दक्षिणां दद्यात् ततः संपद्यते शुभम् ।

चरकः ।

 अवाक्शिरा वाऽजिह्वा वा यस्य वा विशिरा भवेत् ।
 जन्तो रूपःतिच्छायां नैनमिच्छेच्चिकित्सितुम् ॥


  1. 'तां खण्डितां स्वां प्रकृतिं परां तु'-इति ग, पुस्तके पाठः ।