पृष्ठम्:अद्भुतसागरः.djvu/५६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५३
कायरिष्टाद्भुतावर्त्तः ।

पूर्ववदिति षण्मासान्मरणमित्यर्थः ।
आदिपुराणे ।

कृत्वा कराभ्यां मुकुटं ललाटे त्वरं निधायाथ च जानुपूर्वे ।
सुवर्तुलां तां च निरीक्ष्य भूयो विशेत् स्वदेहं समरान्निवृत्तः ॥
विशीर्णपर्णामथ तां च दृष्ट्वा षड्भिर्मासैस्तां सदेहां जहाति ।
यथैव हंसो वकतुण्डघातैर्विकीर्णपत्रां नलिनीं विरूपाम् ॥

मार्कण्डेयपुराणे तु ।

 स्वां छायामथ वा दृष्टा चतुर्मासान् स जीवति ।

पराशरस्तु ।

 स्वच्छायाविकृतदर्शनं पञ्चमे मासि मरणाय-इति सम्बन्धः ।

महाभारते मोक्षधर्मे ।

 "परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव ।
 आत्मच्छायाकृतीभूतं तेऽपि संवत्सररायुषः"[१]

यस्य नेत्रे बहुभिः स्वदेहो न दृश्यते तस्यैव रिष्टं भवति ।
तथा च रिष्टप्रकरणे हारीतः ।

 आदर्शतलसकाशे नेत्रे नष्टकुमारिका ।

चरकस्तु

 दृष्ट्वा यस्य हि जानीयादात्मरूपां कुमारिकाम् ।
 प्रतिच्छायामयीमक्ष्णोर्नैनमिच्छेच्चिकित्सितुम् ॥

भागवते कंसारिष्टदर्शने ।

 "अदर्शनं स्वशिरसः प्रतिरूपेषु सत्स्वपि"[२] |

पराशरस्तु ।

निर्मलेऽम्बुन्यादर्शे चात्मदेहादर्शनं स्वशिरश्च सद्यो मरणाय ।

मार्कण्डेयपुराणे तु ।

 घृते तैले तथाऽऽदर्शे तोये वा नात्मनस्तनुम् ।


  1. शान्तिपर्वणि ३१७ अ, १०, ११ श्लो. ।
  2. श्रीमद्भागवते १० स्कन्धे पूर्वार्धे ४० अ, २६ श्लो. ।