पृष्ठम्:अद्भुतसागरः.djvu/५५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४६
अद्भुतसागरे ।

देवलः ।

 अकस्माद्यो भवेत् स्थूलो योऽकस्माद्वा भवेत् कृशः ।
 प्रकृतिर्विकृतिश्चैव अष्टमासान् स जीवति ॥

मार्कण्डेयपुराणे ।

 स्थूलः कृशः कृशः स्थूलो योऽकस्मादेव जायते ।
 प्रकृतेश्च निवर्त्तेद्यस्तस्यायुश्चाष्टमासिकम् ॥

लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् ।
विष्णुधर्मोत्तरे ।

 दौर्बल्यं जायते यस्य बहुसम्पन्नभोजिनः ।
 अनश्ने तस्य पीनत्वमष्टमे स्यात् स मृत्यभाक् ॥

पराशरस्तु ।

बहुसम्पन्नभुजो वाऽकस्माद्वलोपचयहानिरशुभो वाऽतिवृद्धिरष्टमे ।

कालावल्याम् ।

 स्थूलश्चाकस्मिको जायेताथ वाऽऽकस्मिकः कृशः ।
 अतिक्रुद्धोऽतिभीतश्च वर्षमेकं स जीवति ॥

आदिपुराणे[१] चैवम् ।
चरकस्तु ।

 समस्तगुणसम्पन्नमन्नमश्नाति यो नरः ।
 शश्वच्च बलवर्णभ्यां हीयते न स जीवति ॥

पराशरः ।

 कृष्णपुरुषवर्णप्रादुर्भावमात्रोऽहोरात्रात् ।

कालावल्यां तु ।

 गात्रेऽप्यनेकशो वर्णान् हृदयं वाऽपि रोदिति ।
 ईदृशं लक्षणं ज्ञात्वा मासार्धं जीव्यते ध्रुवम् ॥


  1. बहुत्र 'आदित्यपुराणे' इत्युपलभ्यते ।