पृष्ठम्:अद्भुतसागरः.djvu/५५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४५
कायरिष्टाद्भुतावर्त्तः।

चिरात् कालं मरिष्यतीति विन्द्यात् ।

तथा ।

 निचितं यस्य मांसे स्यात् त्वगस्थिष्वेव दृश्यते ।
 क्षीणं स्यान्न शुभं तस्य मासमायुः परं भवेत् ॥
 ह्रस्वं च यः प्रश्वसिति त्वविद्धं स्पन्दते च यः ।
 मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः ।
 दीर्घं च यः प्रश्वसिति श्लेष्मणा चाभिभूयते ।
 हीनवर्णबलाहारो यो नरो न स जीवति ॥
 दूर्वाग्रे[१] नयने यस्य मन्ये चानतकम्पने ।
 बलहीनः पिपासार्त्तः शुष्कास्यो न स जीवति ॥

मार्कण्डेयपुराणे ।

 संभिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति ।
 न हृष्यतेऽम्बुस्पर्शाच्च तस्य मृत्युरुपस्थितः ॥

लिङ्गपुराणब्रह्माण्डपुराणयोरप्येवम् । देवलस्तु ।

 मारुतो यस्य गात्रेषु मर्मस्थानानि कृन्तति ।
 जीवेत त्र्यहं तु स नरो न संदेहस्तथा भवेत् ॥
 अद्भिः स्पृष्टो न हृष्येत नाहनी द्वे स जीवति ।

चरकः ।

 रसन्ति बलमङ्गानि चेष्टा व्युपरमन्ति वा ।
 वैरस्यं भजते कायः कायच्छिद्रं विशुष्यति ॥
 इत्येतानि मनुष्याणां भवन्ति विनशिष्यताम् ।
 शरीरकम्पः संमोहो गतिर्वचनमेव च ॥
 मर्त्तस्य चोपलभ्यन्ते यस्य मासे स जीवति ।


  1. ऊर्ध्वगे इति अ. पु. पा.।