चरकस्तु ।
मुखशब्दश्रवावोष्ठौ शुक्लस्यावातिलोहितौ ।
विकृत्या यस्य चानीलौ न स रोगाद्विमुच्यते ॥
कालावल्यां तु ।
कालाक्षयोर्मुखं चूर्णं सङ्ख्योर्मुक्तमांसता ।
संत्रासश्चोष्णता वंशे यस्य तं परिवर्जयेत् ॥
कालावल्यां तु ।
कृष्णपद्मोपमं वक्त्रं रसना कज्जलच्छविः ।
ईदृशं लक्षणं ज्ञात्वा मासार्धं जीव्यते ध्रुवम् ॥
आदित्यपुराणे ।
पश्येच्च रक्तोत्पलकान्ति वक्त्रं नानावर्णस्त्वथ वा कृष्णजिह्वः
तदाऽर्धमासेन च तां प्रयाति पुनः प्रहृष्टः कलहान्तरीयाम् ॥
देवलस्तु ।
यस्य कृष्णौ करौ जिह्वा पद्माभासं च वै मुखम् ।
गण्डे च पिटका रक्ताः स जीवेच्चतुरो दिनान् ॥
चरकः ।
शुष्कत्वादास्य कण्ठस्य पेयं पातुं न पारयेत् ।
उरसश्च विशुष्कत्वाद्यो नरो न स जीवति ॥
आदित्यपुराणे तु ।
सखिन्नहृत्कम्पिततालुमन्दस्खलद्द्विजिह्वश्च यदा महात्मा ।
तदाऽर्धमासेन च तां प्रयाति पुनः प्रहृष्टः कलहान्तरीयाम् ॥
कालावल्याम् ।
गात्रेऽप्यनेकशो वर्णा हृदयं वाऽपि रोदिति ।
तालुकण्ठौष्टनाभिश्च हिक्वा वाऽकस्मिकी यदा ॥
ईदृशं लक्षणं ज्ञात्वा मासार्धं जीव्यते ध्रुवम् ।
चरकः ।
तस्य चेन्मध्ये परिदृश्यमाने स्पन्देयातां परासुरिति विन्द्यात्