पृष्ठम्:अद्भुतसागरः.djvu/५४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३३
कायरिष्टाद्भुतावर्त्तः ।

चरकस्तु ।

 अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम् ।
 इन्द्रियैरधिकं पश्यन् पञ्चत्वमधिगच्छति ॥

तथा ।

 स्वस्थः प्रज्ञाविपर्यासैरिन्द्रियार्थेषु वैकृतिः ।
 पश्यन्ति येषु बहुशस्तेषां मरणमादिशेत् ॥

अथ केशाद्यरिष्टम् । तत्र चरकः ।

 प्रमुह्य च नखान् केशान् प्रतिगृह्णात्यतीव च ।

तथा ।

 यस्य केशातिरिक्ताश्च दृश्यन्तेऽभ्यक्तसन्निभाः ।
 उपरुद्धायुषं ज्ञात्वा तं नरं परिवर्जयेत् ॥
 आयम्योत्पाटितान् केशान् यो नरो नानुबुध्यते ।
 अनातुरो वा रोगी वा षड्रात्रं नातिवर्त्तते ॥

मोक्षधर्मे ।

 मूर्धतश्चोत्पतेद्धूमः सद्यो मृत्युनिदर्शकः ।

लिङ्गपुराणे तु ।

 धूमं वा मस्तकात् पश्यन् दशाहं न स जीवति ।

देवलस्तु ।

 मस्तके तु भवेद्धूमोऽर्धमासं न स जीवति ।

पराशरस्तु ।
 जलार्द्रशिरसि धूमाभिदर्शनं सूर्यसंतप्तमस्तकस्यादर्शनमूष्मणो वा त्र्यहात् ।
प्रबलतरधूमदर्शमपरमेतत् ।
तथा च कालावल्याम् ।

 उपरिष्टाद्विसर्पन्ति पञ्चाहं धूममालिकाम् ।
 ब्रह्मद्वारेण पश्येद्यस्तस्यायुस्त्रिसमावधि ॥