पृष्ठम्:अद्भुतसागरः.djvu/५३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२५
कायरिष्टाद्भुतावर्त्तः ।

 मासत्रयस्य मध्ये तु द्रष्टुर्मृत्युं समादिशेत् ।
 क्षीरशान्तिस्तु कर्त्तव्या तया संपद्यते शुभम् ॥

आदित्यपुराणे तु ।

गन्धर्वाणां नगरं वृक्षसंस्थं निरीक्ष्य वाऽऽकस्मिकमग्रसंस्थम् ।
मासैश्चतुर्भिरथ संप्रयाति रक्तैर्माल्यैः पुष्पवर्षैश्च युक्तम् ॥

कालावल्यां च ।

 गन्धर्वनगरं पश्येद्वृक्षाग्रे यदि कुत्र चित् ।
 दशमासावसाने च यमसद्मनि स व्रजेत् ॥

देवलस्तु ।

 रुक्मशाखान् द्रुमान् दृष्ट्वा गन्धर्वनगराणि च ।
 पश्येत् प्रेतपिशाचाँश्च दशमासान् स जीवति ॥

मार्कण्डेयपुराणे तु ।

 दृष्ट्वा प्रेतपिशाचादीन् गन्धर्वनगराणि च ।
 सुवर्णवर्णान् वृक्षान् वा नवमासान् स जीवति ॥

लिङ्गपुराणेऽप्येवम् । विष्णुधर्मोत्तरे तु ।

 रक्षःप्रेतपिशाचानां यक्षाणामपि दर्शनात् ।
 अतीन्द्रियाणामन्येषां नवमे मरणं भवेत् ॥

पराशरस्तु ।

रक्षोयक्षपिशाचानां स्वप्ने दर्शनमतीन्द्रियाणां मूर्त्तित्यागो नवमे ।

चरकस्तु ।

 जाग्रन् पश्यति यः स्वप्नान् रक्षांसि विविधानि च ।
 अन्यद्वाऽत्यद्भुतं कश्चिन्न स जीवितुमर्हति ॥

कालावल्याम् ।

 दृश्येताकस्मिकः क्वापि पुरुषः कृष्णपिङ्गलः ।
 यदि वाऽब्दत्रये नूनं मरणं परिकीर्त्तयेत् ॥