पृष्ठम्:अद्भुतसागरः.djvu/५२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१८
अद्भुतसागरे ।

चरकः ।

 भिषग्भेषजपानाक्षगुरुमित्रद्विजातयः ।
 वशगाः सर्व एवैते ये रसायनवर्त्तिनः ॥

मार्कण्डेयपुराणे तु ।

 येषां विनीतः सततं येऽस्य पूज्यतमाः स्मृताः ।
 तानेव चावजानाति तानेव च विनिन्दति ॥
 देवानार्चयते विद्वान् गुरुविप्राँश्च निन्दति ।
 मातापित्रोरसत्कारं जामातृणां करोति च ॥
 योगिनां चैव विदुषामन्येषां चैव निन्दति ।
 प्राप्ते काले तु पुरुषस्तद्विज्ञेयं विचक्षणैः ॥

महाभारते

 अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।
 प्रथमं ब्राह्मणं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥
 ब्राह्मणाश्च विवादन्ते ब्राह्मणांश्च जिघांसति ।
 नैतान् स्मरति कृत्येषु याचितश्च न यच्छति ॥
 रमते निन्दया नैव प्रशसां नाभिनिन्दति ।

अथ नयनारिष्टम् । तत्र देवलः ।

 अरुन्धतीं ध्रुवं चैव सोमच्छायां महापथम् ।
 यो न पश्येन्न जीवेत् स नरः संवत्सरात् परम् ॥

 सोमच्छायेति । चन्द्रस्यैतच्छाया साऽर्कविम्बाच्छादिका यदपगमे चन्द्रमसः शुक्लत्वं वर्धते । एतदुक्तं भवति । अन्यदृश्यचन्द्रच्छायाच्छादितचन्द्रविम्बैकदेशादर्शनेरिष्टमिति । लिङ्गपुराणेऽप्येवम् ।
वराहसंहितायां तु ।

अरुन्धतीदेवपथं ध्रुवं च छायां शशाङ्कस्य च नेक्षते यः ।
अन्यैरदृश्यं यदि वीक्षते वा वर्षान्तरे मृत्युवशं प्रयाति ॥