पृष्ठम्:अद्भुतसागरः.djvu/५२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१६
अद्भुतसागरे ।

ज्योतिःपराशरविष्णुधर्मोत्तरयोस्तु ।

 प्रकृतेर्विकृतिर्नृणां बुद्धीन्द्रियशरीरजा ।
 अकस्माद्दृश्यते येषां तेषां मरणमादिशेत् ॥

चरकः ।

 मरणं चापि तन्नास्ति यन्न रिष्टपुरःसरम्-इति ।

 तच्च रिष्टं द्विविधं नियतमनियतं च । तत्र कालमृत्युसूचकं नियतम् । गणितागतायु:समाप्त्यामरणं कालमृत्युस्तत्र प्रतीकाराभावः ।
महाभारते ।

 न मन्त्रो न तपो दानं न मित्राणि न बान्धवाः ।
 शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥

कैश्चिदपि कालमृत्योरपि वञ्चनोपायो दर्शितः ।
तथा च ।

 रसायनं तथा द्रव्ययोगयुक्तैर्महात्मभिः ।
 कालमृत्युरपि प्राज्ञैर्जीयते नालसैर्नरैः ॥

सुश्रुतश्च ।

 ध्रुवं त्वरिष्टमरणं ब्राह्मणैस्तत् किलामलम् ।
 रसायनतपोजप्यतत्परैर्वा निवार्यते ॥

 अकालमृत्युसूचकमनियतम् । क्रूरग्रहदशान्तर्दशादिमरणमकालमृत्युः । तच्च स्वस्त्ययनादिसाध्यमेवेति ।
अथ रिष्टविशेषाः । तत्र वुद्ध्यादिरिष्टानि ।
तत्र पराशरः ।

 सूक्ष्मार्थदर्शिनी मन्दाऽमन्दाऽसूक्ष्मार्थदर्शिनी ।
 तपोयोगादृतेऽतीव बुद्धिः स्यात् प्राणसंशये ॥

सुश्रुतः ।

 ह्रीरपक्रामति यतः कान्तिस्मृतिधृतिश्रियः ।
 अकस्माद्यं भजन्ते च स परासुरसंशयम् ॥