पृष्ठम्:अद्भुतसागरः.djvu/५२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१४
अद्भुतसागरे ।

दर्शननिमित्तानुबन्धिफलम् ।
पराशरः ।

 शुभाशुभस्वप्नविधानमुक्तमयुक्तयुक्तं च समूह्य बुद्ध्या ।
 देशादिवर्णाकृतिसम्पदश्च तत्ततत्फलं संपरिकल्पयेच्च ॥
 पादादिपादोत्तरपदवृद्ध्या वर्षार्धमासत्रयमासकालाः ।
 क्षया विभागेषु चतुर्षु दृष्टाः स्वप्ना अनिष्टेष्टफलप्रदाः स्युः ॥

वराहः ।

आद्ये वर्षाद्वत्सरार्धाद्द्वितीये पाको वर्षार्धार्धभागे तृतीये ।
मासात् पाकः शर्वरीपश्चिमान्ते सद्यः पाको गोविसर्गेषु दृष्टः ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 स्वप्नास्तु प्रथमे यामे संवत्सरविपाकिनः ।
 षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्त्रियामिकाः ॥
 चतुर्थे मासमात्रेण पच्यन्ते नात्र संशयः ।

वराहः ।

 भूयः प्रस्वपनं न चास्य कथनं गङ्गाभिषेको जयः
  शान्तिः स्वस्त्ययनं निषेवणमिति प्रातर्गवां शृङ्गयोः ।
 विप्रेभ्यश्च तिलान्नहेमकुसुमैः पूजा यथाशक्तितः
  पुण्यं भारतकीर्त्तनं च कथितं दुःस्वप्नविच्छित्तये ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 एषामकथनं शस्तं भूयः प्रस्वपनं तथा ।
 कल्कस्नानं तिलैर्होमो ब्राह्मणानां च पूजनम् ॥
 स्तुतिश्च वासुदेवस्य तथा तस्य तु पूजनम् ।
 नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम् ॥

पराशरः ।

देवद्विजाग्निप्रतिपूजनानि मन्त्रोपजाप्यानि पवित्रमेव ।