पृष्ठम्:अद्भुतसागरः.djvu/५२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१३
स्वप्नाद्भुतावर्त्तः ।

 पीतैर्निर्वासिता वस्त्रैः क्रीडन्तो गोमये ह्नदे ॥
 समाजश्च महाभूतो नृत्यवादित्रगीतवान् ।
 पिबतां मुण्डशीर्षाणां रक्षसां रक्तवाससाम् ॥
 पीत्वा तैलं प्रवृत्ताश्च प्रहसन्ति महास्वनाः ।
 लङ्कायां भग्नकक्षायां सर्वा राक्षसयोषितः"[१]

आग्नेयपुराणे ।

 पीत्वा तैलं प्रवृत्ता हि प्रहसन्त्यो महास्वनाः ।
 लङ्कायां भस्मभूतायां सर्वा राक्षसयोषितः ॥
 सागरे पतिता दृष्टा नद्यां चैव प्रवाहिताः ।
 गजवाजिरथैर्युक्ता लङ्केयं ससुहृद्गणा ॥

सुन्दरकाण्डे तु ।

 “लङ्गा चेयं पुरी कृत्स्ना सवाजिरथकुञ्जग ।
 सागरे पतिता दृष्टा भग्नगोपुरतोरणा"[२]

लिङ्गपुराणे त्रिपुरबधनिमित्तकथने मयवाक्यम् ।

 मयाऽद्य दृष्टः स्वप्नान्ते पीनाकी क्रोधमूर्छितः ।
 उदरेऽस्मत्पुरीं सर्वां विवेशयति वेगितः ॥

मौशले वृष्णिवंशक्षयनिमित्तम् ।

 “काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि ।
 स्त्रियः स्वप्नेषु मुष्णन्ती द्वारक्तां प्रति धावति” [३]

तथा ।

 वृष्ण्यन्धका नखा दन्ताः स्वप्ने दृष्टा भयानकाः ।

पराशरः ।
सुरर्षिसिद्धगणगन्धर्वयक्षनागानामुपयाचितानुबन्धे यथोक्त-


  1. वाल्माकीये २७ सर्ग श्लो. । तत्र बहुत्र पाठभेदोऽधिकश्च ।
  2. नोक्तस्थले उपलभ्यते ।
  3. ३ अ. १ श्लो ।