पृष्ठम्:अद्भुतसागरः.djvu/५२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अद्भुतसागरे ।

 यो हि रासभयुक्तेन रथेन परिकृष्यते ॥
 मर्त्त्यः स नचिरादेव ध्रुवं याति यमक्षयम्”[१]

सुन्दरकाण्डे रावणवधनिमित्तं त्रिजटादृष्टः स्वप्नः ।

 "विमानात् पुष्पकादद्य रावणः पतितः क्षितौ ।
 कृष्यमाणः स्त्रिया दृष्टो मुण्डो रक्ताम्बरो हसन् ॥
 रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।
 प्रयातो दक्षिणामाशां प्रविष्टः कर्दमं ह्नदम् ॥
 कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ।
 काली कमलपत्राक्षी दिशं याम्यां प्रकर्षति"[२]

आग्नेयपुराणे ।

 विमानात् पुष्पकादद्य रावणः पतितो मया ।
 कृष्णमाणः स्त्रिया दृष्टो मुण्डः पीताम्बरो हसन् ॥
 रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ।
 प्रयातो दक्षिणामाशां नागतः पुनरेव हि ॥
 वराहे तु समारूढश्छागले गर्दभे तथा ।
 शिशुमारे ससैन्यस्तु प्रयातो दक्षिणां दिशम् ॥
 सुसमाजेन संवृत्तो गीतवादित्रनृत्यवान् ।
 विदधद्रक्तवस्त्रं हि हास्ययुक्तः स नृत्यति ॥

सुन्दरकाण्डे कुम्भकर्णवधनिमित्तम् ।

 "वानरेण मया दृष्टः कृष्यमाणेन चासकृत् ।
 उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम् ॥
 कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः ।


  1. नैतानि पद्यानि वाल्मीकीये उक्तस्थले उपलभ्यन्ते ।
  2. वाल्मीकीये उक्तकाण्डे २७ सर्गे: २१-२७ श्लो.। तत्राधिकः पाठो भिन्नश्चोपलभ्यते ।