पृष्ठम्:अद्भुतसागरः.djvu/५१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५११
स्वप्नाद्भुतावर्त्तः ।

 सुघोरज्वरमासाद्य प्रयाति यममन्दिरम् ।
 स्नेहं बहुविधं स्वप्ने चाण्डालैः सह यः पिबेत् ॥
 बुद्ध्यते स प्रमेहेण गृह्यते स च मानवः ।

अयोध्याकाण्डे भरतवाक्यम् ।

 “दृष्टो मयाऽद्य स्वप्नो वै चन्द्रमाः पतितः क्षितौ ।
 संशुष्कः सागरश्चैव सूर्यो ग्रस्तश्च राहुणा ॥
 अद्राक्षमपि च स्वप्ने पितरं रक्तवाससम् ।
 कृष्यमाणं नरैर्बद्ध्वा दक्षिणामभितो दिशम् ॥
 पुनश्चाप्येनमद्राक्षं स्नेहाक्तं रक्तमूर्धजम् ।
 पतन्तमद्रिशिखरादगाधे गोमये ह्रदे ॥
 तस्मिन् नग्नश्चोन्मज्जन् दृष्टो मे गोमये ह्नदे ।
 पिबन्नञ्जलिना तैलं हसमानः पुनः पुनः ॥
 तैलेनाभ्यक्तसर्वाङ्गस्तैलमेव व्यगहित ।
 पीठे कार्ष्णायसे चैलविषण्णं कृष्णवाससम् ॥
 प्रहसन्ति स्म राजानः प्रमदाः कृष्णपिङ्गलाः ।
 दृष्टो रासभयुक्तेन रथेन च पिता मया ॥
 रक्तमाल्याम्बरधरः प्रयातो दक्षिणामुखः ।
 प्रदीप्तमम्भसा शान्तं दृष्टवानस्मि पावकम् ॥
 सीदन्तं च तथाऽद्राक्षं पङ्के लग्नं महागजम् ।
 विशीर्यमाणः शैलेन्द्रो भग्नश्चैत्यमहाद्रुमः ॥
 स्वप्नेनाद्य मया दृष्टो निपतँश्च महीध्वजः ।
 एवमेव मया स्वप्नो दृष्टः पापभयावहः ॥
 व्यक्तं रामोऽथ वा राजा प्राणाँस्त्यक्त्वा दिवं गतः ।