पृष्ठम्:अद्भुतसागरः.djvu/५१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०९
स्वप्नाद्भुतावर्त्तः ।

तस्य मरणायेति सम्बन्धः ।
वायुलिङ्गमार्कण्डेयपुराणेषु ।

 नग्नं श्रवणकं स्वप्ने हसमानं महाबलम् ।
 एकं वा वीक्ष्य च बहून् विद्यान्मुत्युमुपस्थितम् ॥

वायुमार्कण्डेयपुराणेषु ।

 आमस्तकतलो यस्तु निमज्जेत् पङ्कसागरे ।
 दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ॥

चरकः ।

 लाक्षारक्ताम्बराभं यः पश्यत्यम्बरमन्तिकात् ।
 सरक्तपित्तमासाद्य तेनैवान्ताय नीयते ॥

वायुपुराणलिङ्गपुराणयोः ।

 यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः ।
 कृष्णं रक्तमपि स्वेन तस्य मुत्युरुपस्थितः ॥

देवलस्तु विशेषमाह ।

 छिद्रवासश्च कृष्णं च स्वप्ने यो बिभृयान्नरः ।
 नग्नं वा श्रवणं दृष्ट्वा विन्द्यान्मृत्युमुपस्थितम् ॥

वायुपुराणेऽप्येवम् ।
लिङ्गपुराणे ।

 श्वभ्रे यो निपतेत् स्वप्ने द्वारं चास्य पिधीते ।
 न वोत्तिष्ठति यस्तस्मात् तदन्तं तस्य जीवितम् ॥

मार्कण्डेयपुराणेऽप्येवम् ।
लिङ्गपुराणे ।

 अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः ।
 न च स्मृतं न चाभिज्ञा तदन्तं तस्य जीवितम् ॥

मार्कण्डेयपुराणे तु विशेषः ।

 स्वप्नेऽग्निं प्रविशेद्यस्तु न च निष्क्रमते पुनः ।
 जलप्रवेशादपि वा तदन्तं तस्य जीवनम् ॥