पृष्ठम्:अद्भुतसागरः.djvu/५१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०८
अद्भुतसागरे ।

 स्वप्ने प्रायाति तस्यापि न मृत्युः कालमृच्छति ॥

वायुपुराणलिङ्गपुराणयोस्तु ।

 क्षुद्रवानरयुक्तेन रथेनाशां तु दक्षिणाम् ।
 गायन्नथ व्रजेत् स्वप्ने विन्द्यान्मृत्युमुपस्थितम् ॥

देवलश्चैवम् ।
वायुपुराणलिङ्गपुराणयोः ।

 उष्ट्रा वा रासभा वाऽपि युक्ताः स्वप्ने रथेऽशुभाः ।
 यस्य सोऽपि न जीवेत् तु दक्षिणाभिमुखो गतः ॥

मार्कण्डेयपुराणे तु विशेषः ।

 उष्ट्ररासभयानेन यः स्वप्ने दक्षिणां दिशम् ।
 प्रयाति तं चेज्जानीयात् सद्यो मृत्युं नराधिपः ॥

चरकस्तु ।

 श्वभिरुष्ट्रैः खरैर्वाऽपि याति यो दक्षिणां दिशम् ।
 स्वप्ने पक्षं तथाऽऽसाथ स जीवन्तं विमुञ्चति ॥

वायुपुराणलिङ्गपुराणयोः ।

 कृष्णाम्बरधराः श्यामा गायन्त्योऽप्सरसोऽङ्गनाः ।
 नयेयुर्दक्षिणामाशां स्वप्नेऽप्येवं न जीवति ॥

देवलस्तु विशेषमाह ।

 कृष्णाम्बरधरा श्यामा गायन्ती वाऽप्यथाङ्गना ।
 यन्नयेद्दक्षिणामाशां स्वप्ने सोऽपि न जीवति ॥

मार्कण्डेयपुराणे तु ।

 रक्तकृष्णाम्बरधरा गायन्ति च हसन्ति याः ।
 दक्षिणाशां नयेन्नारीः स्वप्ने सोऽपि न जीवति ॥

सुश्रुतः ।

 कृष्णाम्बरधरा नारी हसन्ती मूक्तमुर्घजा ।
 यं चाकर्षति बद्ध्वा स्त्री नृत्यन्ती दक्षिणामुखम् ॥