पृष्ठम्:अद्भुतसागरः.djvu/५१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०४
अद्भुतसागरे ।

चन्द्रार्कनिपतनमभिप्लवो वा चक्षुर्व्याघाताय पार्थिवोपद्रवाय वा । नगरपुरशिखतोरणेन्द्रध्वजसुरपतिभवननिपतनं नृपतिविघाताय स्वपतिक्लेशाय वा ।
वराहः ।

 नाभेरन्यत्र गात्रे तृणतरुकुसुसुमप्रोद्भवः स्नेहपानं
  क्रीडायां नोपभोगाः खरकपिकरभव्यालरौद्रैश्च सत्त्वैः ।
 कायस्यालेपनं वा कलुषजलमसीगोमयस्नेहपङ्कै-
  र्दृग्जिह्वादन्तबाहुप्रपतनमथ वाऽनर्थशोकप्रदानि ॥
 गीतक्रीडितभूषितप्रहसितप्रेङ्खेलितास्फोटिता-
  न्यर्केन्दुध्वजतारकानिपतनं श्रोतोवहाधोगमः ।
 रज्जुच्छेदचिताप्रपातजननीगात्रप्रवेशास्तथा
  स्वप्ने कांस्यविवर्णनं च शिरसि क्लेशामयानर्थदम् ॥
 स्थलपशुमृगकीटानूपचर्माण्डजानां
  प्लवनमुदकनाशौ स्याद्विवाहोत्सवो वा ।
 सरसिजजतुभाण्डक्रीडनं नर्त्तनं वा
  मलिनविवसनत्वं वाऽऽशु शोकप्रदानि ॥
पुंद्रव्यनाशेषु हृताद्वियोगश्छेदश्च पाणेः कमलापहारे ।
प्रासादशृङ्गादिशिरोवताराः स्वप्नेषु नेष्टा इति संप्रदिष्टाः ॥
सर्पे कर्णं नासिकां वा प्रविष्टे तच्छेदः स्याद्वेष्टने चाशु बन्धः

वराहः ।

 लास्ये प्राप्नोति वधं रुदिते हास्ये प्रगीतके रोगः ।
 पवनं कलहप्रायं प्रतिलोमफलः किल स्वप्नः ॥
 चित्रं कर्मविचित्रं यः पश्यति नैव वर्त्तितं स्वप्ने ।
 शोकः समाश्रयेत् पतितं वासार्थमित्राण्डजे वृक्षम् ॥