पृष्ठम्:अद्भुतसागरः.djvu/५११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०३
स्वप्नाद्भुतावर्त्तः ।

 क्रीडा पिशाचक्रव्यादवानरान्यनरैरपि ॥
 परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ।
 कषायवस्त्रधारित्वं तद्वस्तुक्रीडनं तथा ॥
 स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम् ।
 एवमादीनि चान्यानि दुःस्वप्नानि विनिर्दिशेत् ॥

पराशरः ।  श्ववानरोष्ट्रखरनकुलमार्जारमहिषवराहद्वीपिभासाद्यप्रशस्तान्यदंष्ट्रिनखिक्रव्याददर्शनमभिद्रवणं वातक्लेशाय । यानं व्याधये । वधो वधाय । निपातः पराजयाय । केशलोमनखदर्शनपातनं मणिरत्नाभरणपतनं छेदनाय । हरणं व्याधिक्लेशबन्धुनाशाय । श्मश्रुकर्मोन्मर्दनं सकृन्मूत्रकरणं नग्नताऽऽत्मनो घृततैलवसनाभ्यङ्गवसनादिविकृतपुरुषस्त्रीभिरमानुषैरसकृदभिद्रवणं पक्वमत्स्यभक्षणं व्याधिक्लेशभयाय । विरेचनमन्नक्षयाय । घृतोदपूर्णकुम्भकमण्डलूपस्थानच्छत्रसूत्रबद्धरज्जुदर्शनं लाभो वाऽध्वगमनाय । मत्तप्रव्रजितनग्नशौण्डिकप्रशुष्कनदीह्नदतीर्थाभिदर्शनं शुकमयूरगोधामूषिकाजाविकनटनर्त्तकाश्ववारणगीतवादनं स्वयं वा गीतिनृत्यवादनं कांस्यभाण्डावभेदः सेतुतरुच्छेदः प्रवेशस्तमसि शून्यभिन्नागारेषु च शुष्कवृक्षदर्शनारोहणमवनेर्विचलनमशनिमेघनभोनीहारदर्शनं कृमिकीटपतङ्गदंशमशकमक्षिकाभिदर्शनमभिलपनं च । अञ्जनत्रपुताम्रशीसलोहाभावो रथशिखरयानच्छत्रावपतनं मज्जनं वा कलुषजले पङ्कवल्मीकपांशुसिकताऽधिरोहणमवसनं वा कलिक्लेशायानर्थाय । वा स्वभवनहर्म्यप्रासादनिपतनमभिनिष्क्रमणं वा स्वगृहादुत्थितरुदितानामङ्गनानामङ्गलीभिः सम्मार्जन्या वा मार्जनं सर्वस्वनाशाय ।