पृष्ठम्:अद्भुतसागरः.djvu/५१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०२
अद्भुतसागरे ।

 तस्मात् त शोभने स्वप्ने पश्चात् स्वापो न शस्यते ।

अथ दुःस्वप्नो मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 नाभिं विनाऽन्यगात्रेषु तृणवृक्षसमुद्भवः ।
 चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा ॥
 मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता ।
 उच्चप्रपतनं चैव दोलारोहणमेव च ॥
 अर्जनं पद्मलोहानां हयानामपि मारणम् ।
 रक्तपुष्पद्रुमाणां च चाण्डालस्य तथैव च ॥
 वराहर्क्षखरोष्ट्राणां तथा वाऽऽरोहणक्रिया ।
 भक्षणं पक्कमांसनां तैलस्य कृसरस्य च ॥
 नर्त्तनं हसनं चैव विवाहो गीतमेव च ।
 तन्त्रीवाद्यविहीनानां वाद्यानामपि वादनम् ॥
 श्वेतो वराहोऽधोगमनं स्नानं गोमयवारिणा ।
 पङ्कोदकेन च तथा वर्हतोयेन वाऽप्यथ ॥
 मातुः प्रवेशो जठरे चितारोहणमेव च ।
 शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः ॥
 दिव्यान्तरिक्षभौमानामुत्पातानां च दर्शनम् ।
 देवद्विजातिभूपानां प्रजानां क्रोध एव च ॥
 आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ।
 हानिश्चैव स्वगात्राणां विरेकवमनक्रिया ॥
 दक्षिणाशाभिगमनं व्याधिनाऽभिभवस्तथा ।
 फलोपहारश्च तथा शाद्वलानां विशोधनम् ॥
 गृहाणां चैव पातश्च गृहसंमार्जनं तथा ।