पृष्ठम्:अद्भुतसागरः.djvu/५०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०१
स्वप्नाद्भुतावर्त्तः ।

 राक्षसानामभावाय भर्त्तुरस्या भयाय तु"[१]

अस्याः सीतायाः ।

 “सपर्वतां नगां कृत्स्त्नां ग्रसमानो वसुन्धराम् ।
 मयाऽद्य दृष्टः स्वप्नान्ते रुधिरं पीतवान् बहु" ॥
 गजदन्तमयीं दिव्यां शिविकामन्तरिक्षगाम् ।
 मुक्तां गजसहस्रेण स्वयमास्थाय राघवः ॥
 समुद्रेण परिक्षिप्तमारुह्य श्वेतपर्वतम् ।
 रामेण संगता सीता भास्करेण प्रभा यथा ॥
 द्रुमोपपातः काकुस्थो भार्यया सह सीतया ।
 लक्ष्मणेन च वीरेण विमाने पुष्पके स्थितः ॥
 पाण्डुरर्षभयुक्तेन रथेनाश्वयुजा तथा ।
 शुक्लमाल्याम्बरधरो लक्ष्मणेन समन्वितः ॥
 यस्या ह्येतादृशः स्वप्नो दुःखितायाः प्रदृश्यते ।
 सा दुःखैर्बहुभिस्त्यक्ता प्रियं पश्येदनन्तरम्"[२]

आग्नेयपुराणे विभीषणराज्यनिमित्तं । त्रिजटादृष्टः स्वप्नः ।

 विभीषणो गजारूढः श्वेतमाल्यानुलेपनः ।
 मदयुक्तगजारूढः फलान्याहर्त्तुमुद्यतः ॥

बृहद्यात्रायां वराहः ।

दृष्ट्वा स्वप्नं शोभनं नैव स्वप्यात् पश्चाद्दृष्टो यः स्वपाकं विधत्ते ।
शंसेद्दुष्टं तज्ज्ञसाधुद्विजेभ्यस्ते चाशीर्भिः पूजयेयुर्नरेन्द्रम् ॥

मत्स्यपुराणे ।

 एकस्यां यदि चेद्रात्रौ शुभं वा यदि वाऽशुमम् ।
 पश्चाद्दृष्टश्च यस्तत्र तस्य पाकं विनिर्दिशेत् ॥


  1. २७ सर्गे ६ श्लो. ।
  2. वाल्मीकीये २७ सर्गे एतान्येतद्भिनान्यपि वचनानि
    उपलभ्यन्ते । तत्र बहुत्रपाठभेदोऽप्यस्ति ।