पृष्ठम्:अद्भुतसागरः.djvu/५०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५००
अद्भुतसागरे ।

 तथोदकानां तरणं तथा विषमलङ्घनम् ।
 हस्तिनीवडवानां च गवां च प्रसवो गृहे ॥
 आरोहणमथासां च रोदनं च तथा शुभम् ।
 वरस्त्रीणां तथा लाभस्तथाऽऽलिङ्गनमेव च ॥
 निगडैर्बन्धनं धन्यं तथा विष्ठानुलेपनम् ।
 जीवतां भूमिपालानां सुहृदामपि दर्शनम् ॥
 दर्शनं देवतीर्थानां विमलानां तथाऽम्भसाम् ।
शुभान्यथैतानि नरस्तु दृष्ट्वा प्राप्नोत्ययत्नाद्ध्रुवमर्थलाभम्
स्वप्नानि धर्मज्ञभृतां वरिष्ठव्याधेर्विमोक्षं तु तथाऽतुरोऽपि ॥

आग्नेयपुराणे राजभयनिमित्तम् । त्रिजटादृष्टस्वप्नाः ।

 सपर्वतवनां कृत्स्नां ग्रसमानो महीमिमाम् ।
 स्वप्ने रामो मया दृष्टो रुधिरं पीतवान् बहु ॥
 मुक्तां नागसहस्रेण शिविकामन्तरिक्षगाम् ।
 प्रास्थापयदथो सीतां सुखमास्थाय राघवः ॥
 रावणश्च मया दृष्टो विमाने पुष्पके स्थितः ।
 लक्ष्मणेन सह भ्रात्रा चतुर्दन्ते महागजे ॥
 रामेण संगता सीता आरुह्य श्वेतपर्वतम् ।
 सागरेण परिक्षिप्तं भास्करं परिमार्जनम् ॥
 राघवश्च मया दृष्टः सीतया सहितो युवा ।
 श्वेतहस्तिसमारूढः श्वेतवस्त्रावगुण्ठितः ॥
 पाण्डुरर्षभयुक्तेन रथेनाश्वयुजा तथा ।
 शुक्लमाल्याम्बरधरो लक्ष्मणेन च संगतः ॥

सुन्दरकाण्डे च त्रिजटावाक्यम् ।

 “स्वप्नो ह्यद्य च मया दृष्टो दारुणो रोमहर्षणः ।