पृष्ठम्:अद्भुतसागरः.djvu/५०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९७
स्वप्नाद्भुतावर्त्तः ।

 विपुलरणविमर्दद्यूतवादैश्च जित्वा
  पशुमृगमनुजानां लब्धिरध्यासनं वा ।
 विलसनपरिलेपोऽगम्यनारीगमो वा
  स्वमरणशिखिलाभः शस्यसंदर्शनं च ॥
 सितसुरभिमनोज्ञालेपमाल्याम्बराणां
  द्विजसुरगुरुराज्ञां[१] दर्शनान्याशिषश्च ।
 मणिरजतसुवर्णाम्भोजपात्रेषु भुङ्क्ते
  यदि दधिपरमान्ने मज्जतेऽसृग्ह्रदे वा ॥
सिततुरगफलध्वजातपत्रव्यजनसरोजमणिद्विजेन्द्रलाभः ।
अभय विजय भुङ्खवेति शब्दाः परिणतराज्यफलप्रदाः प्रदिष्टाः ॥

योगयात्रायां वराहः ।

 खं लेढि जिह्वया यः स्युरदक्षो दीर्घयाऽवरः स्वप्ने ।
 अपि दासकुले ज्ञातः स सागरान्तां महीं पाति ॥

पराशरः ।
 दुर्गाधिरोहणं स्वभुजचलान्मानुषामनुषद्विषदनिमित्तपातनमसिशरकवचचापभूषणान्यप्रहरणलाभोऽरिविजयाय । सिंहव्याघ्रतुरगर्षभगजनररथादिरोहणममलसलिलपुलिनविमलनभोग्रहार्कचन्द्रतारोदयाभिदर्शनम् । दर्शनं च सुरगुरुनृपतिसिद्धद्विजाचार्यकसितसुरभिकुसुमितवनप्ररूढवनहरितोद्यानविविधवननवशस्यपाकापाण्डुप्रवर्त्तितमहीतलानां तथाऽऽममत्स्यमांसभक्षभिः स्वाङ्गारशमनं पराननाङ्गसंभक्षणमभिनववास्तुप्रवेशकरणदर्शनमभिप्रवेशोऽवनिपतिमहिषीणां भवनशयनासनाङ्गज्वलनशकृदनुलेपनप्रभक्षणमदि-


  1. द्विजसुरगुरुराजानामित्यनेन भवितव्यम् ।