पृष्ठम्:अद्भुतसागरः.djvu/५०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९६
अद्भुतसागरे ।

तरणमवनेश्च रुधिरपरिप्लावनमन्त्रैरविकलपरिवारणं भुजापरिष्वञ्जनं वा सकलवसुधाधिपत्याय । तथा स्निग्धहरितफलितसितसुरभिकुसुमकुसुमितप्रशस्ततरुसमधिरोहरणम् । बृहदमलदृढहर्म्यश्वेतगजमस्तकक्षितिधरसितशिखरज्वालितरथनृपतिशिरसामपि । नरशिरोभक्षणमसृग्ह्रदावगाहनमभिषेचनपानानुलेपनमवनिविजयाय राज्ञाम् । अराज्ञामिष्टधनविद्यासुखाधिपत्याय ।
बृहद्यात्रायां वराहः ।

 स्वाङ्गप्रज्वलनं परोपशमनं शक्रध्वजालिङ्गनं
  दृक्संयुक्तचरैर्निपत्य च तरोः प्रक्षेपणं दिक्षु च ।
 बद्धो वा निगडैर्प्रसेच्य दहनं नानाशिरोवाहुना
  छत्रं वा द्विरदोऽभिषिच्य विभृयाद्दिव्योऽथ वा ब्राह्मणः ॥
 उडुपदिनकृद्भङ्गः शृङ्गं च्युतास्वभिषेचनं
  यदि च महिषीसिंहीव्याघ्रीगवां मुखदोहनम् ।
 जठरनिसृतैश्चान्त्रैर्ग्रामद्रुमाद्रिविचेष्टनं
  विशति यदि वा सुश्लिष्टाङ्गीतनुः प्रवराङ्गना ॥
 नरजहृदयमूर्धाभक्षणं वा स्वदेहे
  सुतनुभुजगसिंहेभाममांसादनानि ।
 तृणतरुकुसुमाम्बुप्रोद्भवो वा स्वनाभौ
  क्षितिगिरिपरिवर्त्तोन्मूलने वाऽधिराज्यम् ॥
 दिनकरशशिताराभक्षणस्पर्शनानि
  हरणमपि च मूर्ध्नः सप्तपञ्चत्रिधा वा ।
 वृषभगृहनगेन्द्राश्वेभसिंहाधिरोहा
  ग्रसनमदधिभम्याश्चाधिराज्यप्रदानि ॥