पृष्ठम्:अद्भुतसागरः.djvu/५०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९५
स्वप्नाद्भुतावर्त्तः ।

पराशरः ।
 तस्य त्रिविधं दर्शनमपार्थकं यथार्थमन्यार्थं च । मनो हि निद्रानिहिततत्त्वविज्ञानं कदाचिदतिहर्षशोकक्रोधचिन्ताभयमदप्रमोदैर्ष्याकलुषितमतिदृष्टश्रुतार्थभूतार्थभावितमाविशुद्धधातुदोषप्रकोपप्रतापप्रतप्तेन्द्रियमिवोद्भवान्तमवशमभिक्षिप्तमतिवहुशोऽतिव्याकुलं दिवावृत्तं वा स्वप्नगतमनुभवति तदनियतमपार्थकंचोपदिशन्ति ।
 कायवाङ्मनोविशुद्धानां चातिसत्त्वानां देवताः प्रत्यक्षवदभि दर्शयन्ति तद्यथार्थमित्याचक्षते । न चानिमित्तभाविनो भावाः । कालो हि भूतार्थनिमित्तमेष्यफलबोधकं स्वप्नाख्यमभिदधाति । तदन्यथा दृष्टमन्यथानियतफलमिति भवति चात्र मनोविकारजस्वप्नमभिवाञ्छन्त्यपार्थकम् । यथार्थदर्शनार्थत्वाद्यथार्थं देवताश्रयं वा ।
योह्यन्यदर्शनादन्यफल आत्मनिमित्तजस्तमन्यार्थमनेकार्थं प्रवक्ष्याम्यखिलार्थतोऽव्यः ।
चरकस्तु ।

 दृष्टं श्रुतार्थभूतं च प्रार्थितं कल्पितं तथा ।
 भावितं दोषजं चैव स्वप्नं सप्तविधं विदुः ।
 तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत् ।

बृहद्यात्रायां वराहः ।

 प्रत्यक्षवद्भवति यः स्फुरतीव चान्तः
 स्वप्नस्य तस्य नियमात सदसत्फलाप्तिः ।
 स्वप्नाः शुभाशुभफलाः कथितानराणा
 मुद्वेशमात्रमिह तानपवर्णयामि ॥

तव शुभं स्वप्नमाह पराशरः ।
तत्रावनेर्भुजगनलेनोद्धृत्य स्कन्धारोपणे वा ग्रसनमभिलङ्घनमर्कचन्द्रसंभक्षणं तृणमधिरोहणमुदधिसलिलसकलाभिपानमभि-