पृष्ठम्:अद्भुतसागरः.djvu/५००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९२
अद्भुतसागरे ।

दृगन्तमध्ये स्फुरणेऽर्थसम्पदुत्कण्ठता स्यात् स्फुरिते दृगादौ ।
जयोदृशोऽधःस्फुरणेरणे स्यात् प्रियश्रुतिः स्यात् स्फुरिते च कर्णे॥
योषित्समृद्धिः स्फुरिते च गण्डे घ्राणेन सौगन्ध्यमुदौ भवेताम् ।
भोज्येष्टसङ्गावधरोष्ठयोश्च स्कन्धं गले भोगविवृद्धिलाभौ ॥
स्पन्दे भुजस्य प्रियसङ्गमाय स्पन्दः करस्य द्रविणाप्तिहेतुः ।
स्पन्दस्तु पृष्ठस्य पराजयाय स्पन्दो जयायोरसि मानवानाम् ॥
भवेच्च पार्श्वस्फुरणे प्रमोदः स्तनप्रदेशे विषयस्य लाभः ।
कट्यां भवेतां तु बलप्रमोदौ स्थानस्य हानिः स्फुरितेन नाशः ॥
वृद्धिस्तथाऽन्त्रस्फुरणे धनस्य दुःखं धनान्तं हृदयस्य चान्तः ।
स्फिक्पार्श्वकम्पे वरवाहनाप्तिर्वराङ्गकम्पे वरयोषिदाप्तिः ॥
गुह्यप्रकम्पे तनयस्य जन्म वस्तिप्रकम्पे युवतिप्रवृद्धिः ।
दोषं प्रजल्पन्ति तथोरुपृष्ठे उरोः पुरः स्यात् सुसहायलाभः ॥
स्याज्जानुसन्धिस्कुरिते च सन्धिर्जङ्घाप्रकम्पेऽपि च लाभनाशः ।
स्थानातिरुवं चरणप्रकम्पे यात्रा सलाभाऽपि तलप्रकम्पे ।

विष्णुधर्मोत्तरे ।

 दक्षिणेऽतिप्रशस्तेऽङ्गे प्रशस्तः स्याद्विशेषतः ।
 अप्रशस्ते तथा वामे अप्रशस्तं विशेषतः ॥

पराशरः ।

 उत्पातगण्डपिटका दक्षिणतो वामतस्त्वनभिघाताः ।
 धन्या भवन्ति पुंसां तद्विपरीताश्च नारीणाम् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 लाञ्छनं पिटकं चैव ज्ञेयं स्फरणवत् तथा ।
 विपर्ययेणाभिघातं सर्वं स्त्रीणां विपर्ययम् ॥

वसन्तराजः ।

मशकं तिलकं पिटकं वाऽपि व्रणमथ चिह्नं किमपि कदाऽपि ।