पृष्ठम्:अद्भुतसागरः.djvu/४९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८९
मानुषाद्भुतावर्त्तः ।

तत्रैव ।

 नार्यौ द्वे केशसंलग्ने पततो गृहचत्वरे ।
 अर्थहानौ ततः शान्तिर्होमो भोजनदक्षिणा ॥

गार्गीये ।

 उह्यमानः शवोऽकस्मात् क्षितावभिपतेद्यदा ।
 यत्कुलेऽसौ शवस्तेषां विनाशो भवति ध्रुवम् ॥

नारदः ।

 शवस्तु नीयमानस्तु भूमौ निपतते यदि ।
 कुटुम्बमरणं तत्र धनधान्यपरिक्षयः ॥
 इमा रुद्रेति मन्त्रेण जुहुयात् सर्पिषा हुतिम् ।
 आहुती द्वे सहस्रे च होमश्च कथितो भवेत् ॥
 वृषभं दक्षिणां दद्यात् ततः संपद्यते शुभम् ।

मयूरचित्रे ।

 मृतः श्मशानं नीतो यः प्रत्युज्जीवति मानवः ।
 स्वस्थो वा भवति क्षिप्रं पुनरायाति मन्दिरम् ॥
 स देशः क्षीयते क्षिप्रं परचक्रेण हन्यते ।
 यमदृष्ट्या ततः शान्तिः सक्षीराः समिधः शतम् ॥
 घृताक्ता जुहुयाद्विप्रो हुतान्ते भूरिदक्षिणाम् ।
 सावित्र्याऽष्टसहस्रेण क्षीरशान्तिं च कारयेत् ॥
 कपिला गौस्तिलं कांस्यं देयं यममतं यथा ।

पराशरः ।
 मृतो वा व्याहरेद्गच्छेद्यत्र तत्र भयं वदेत् । अत्र सावित्रीमन्त्रदशलक्षहोमादिका सामान्या शान्तिः कर्त्तव्या।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे मानुषाद्भुतावर्त्तः ।