पृष्ठम्:अद्भुतसागरः.djvu/४९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८८
अद्भुतसागरे ।

 वृद्धबालातुरेष्वेवं शान्तिं कुर्वन्तु मे सदा ॥

आग्नेये ।

 अकस्माच्छत्रुकलहे आग्नेयीं शान्तिमाचरेत् ।
 शमस्वेत्यादिभिर्मन्त्रैर्नवभिर्जुहुयाद्घृतम् ॥
 चरुं हुत्वा स्वयं प्राश्य दद्यात् स्वयं च दक्षिणाम् ।
 यत्र वा कलहस्तस्मात् तत्र शान्त्युदकं परम् ॥
 सदाचारा द्विजा यत्र युध्यन्त्यायुधपाणयः ।
 तत्र देशविनाशः स्यादैन्द्रीं शान्तिं समाचरेत् ॥
 आयाहि त्वं प्रभृतिभिर्मन्त्रैरष्टाभिराहुतिम् ।
 आज्यस्य जुहुयादष्टौ होम ऐन्द्रचरोस्ततः ॥
 इन्द्रः पूज्यो बलिर्देयो गोदानं द्विजपूजनम् ।

मयूरचित्रे ।

 स्त्रियाश्चैव मनुष्यस्य केशाकेशि भवेद्यदा ।
 आभीक्ष्णकलहौ तौ च विवादो यत्र मन्त्रिणा ॥
 चाण्डाला ब्राह्मणैः सार्धं विवदन्ते तु यत्र वै ।
 भयं तत्र प्रदेष्टव्यममात्यस्य वधस्तथा ॥
 श्रेष्ठीनां सार्थवाहानां वधोऽन्यस्य जनस्य च ।
 प्राजापत्या ततः शान्तिः कर्त्तव्या पापनाशिनी ॥
 अश्वत्थसमिधं हुत्वा घृताक्तां मधुसंस्कृताम् ।
 सावित्र्याऽष्टसहस्रेणा प्राजापत्यैस्तु यत्नतः ॥
 पायसान् भोजयेद्विप्रान् हुतान्ते भूरिदक्षिणाम् ।।

तत्रैव ।

 केशाकेशिफलं भूमौ पातयेच्च कलिं कुले ।
 न शुभा याऽत्र सा शान्तिर्या गोधागृहवेशने ॥