पृष्ठम्:अद्भुतसागरः.djvu/४९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८६
अद्भुतसागरे ।

औशनसे ।

 ब्राह्मणा यत्र वध्यन्ते ग्रामे राष्ट्रेऽथ वा पुरे ।
 राजधानीषु वा यत्र तत्राभावस्य लक्षणम् ॥

मत्स्यपुराणे ।

 एतेष्वभ्यर्चयेच्छक्रं सपत्नीकं द्विजोत्तम ।
 भोज्यानि चैव कार्याणि ब्राह्मणानाशयेत् सदा ॥
गावश्च दद्याद्द्विजपुङ्गवेभ्यो भुवं तथा काञ्चनमन्दिराणि ।
होमश्च कार्यो द्विजपूजनं च एवं कृते शान्तिमुपैति पापम् ॥

बार्हस्पत्ये तु ।

 अपूज्या यत्र पूज्यन्ते पूजनार्हा न कर्हि चित् ।
 पूज्येऽवमाननिष्ठा च भयस्येतन्निदर्शनम् ॥
 अधीयन्ते नार्हयन्ति ब्राह्मणा बलिभिः सुरान् ।
 भिन्नाः कौटिल्यबहुला नराः परुषवादिनः ॥
 ब्राह्मणाश्च निरुत्साहाः सन्ध्यासत्यविवर्जिताः ।
 शीलाचारविहीनाश्च मद्यमांसानृतप्रियाः ॥
 नराः पाखण्डभूयिष्ठा विनाशे पर्युपस्थिते ।
 महाबलिं महाशान्ति भोज्यानि सुमहान्ति ॥
 पूजयेत् तु महेन्द्रं च महादेवमथापि वा ।
 ऐन्द्रस्थाने तु माहेन्द्रीं रौद्रे रौद्रीं प्रयोजयेत् ॥
 गवामष्टशतं दद्याद्विप्रेभ्यो मनुजाधिपः ।
 गुरवे दक्षिणां दद्यात् पूजास्वेवं शुभं भवेत् ॥

मयूरचित्रे ।

 अग्रहारे पुरे ग्रामे कलिर्यत्र महान् भवेत् ।
 निर्निमित्तं प्रकृत्या वा द्विजैर्वा नृपतेर्भयम् ॥