पृष्ठम्:अद्भुतसागरः.djvu/४९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८३
दीव्यस्त्रीपुरुषदर्शनाद्भुतावर्त्तः ।

 गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत क्व चित् क्व चित्"[१]
 “अलङ्कारश्च च्छत्रं च ध्वजाश्च कवचानि च ।
 ह्रियमाणान्यदृश्यन्त रक्षोभिः शुभयानकैः”[२]
 "पुण्याहे वाच्यमाने च जपत्सु च महात्मसु ।
 अभिधावन्त श्रूयन्ते न चादृश्यन्त कश्चन"[३]

स्कन्दपुराणे त्रिपुरदाहनिमित्तम् ।

 अपवादाश्च श्रूयन्ते पुण्याहोदीरणेषु च ।

मत्स्यपुराणे ।

 "हिंसहिंसेति श्रूयन्ते गिरश्च भयदाः पुरे"[४]

 स्कन्दपुराणे प्रह्लादपराजयनिमित्तम् ।

 निर्वाताः साशनिरवा गिरो हाहा रवा दिशः ।

उत्तरकाण्डे शैलृषसुतानां वधनिमित्तम् ।

 “प्रादुरासीन्महाञ्छब्दः खे शरीरं न दृश्येत ।
 सर्वेषु राजन् देशेषु तदद्भुतमिवाभवत्" [५]

गदापर्वणि दुर्योधनवधनिमित्तम् ।

 "अशरीरा महानादाः श्रूयन्ते स्म तदा नृप"[६]

तत्रैव पाण्डवशिविरक्षयनिमित्तम् ।

 "यक्षाणां राक्षसानां च पिशाचानां तथैव च ।
 अन्तरिक्षे महानादः श्रूयते भरतर्षभ"[७]

स्कन्दपुराणे देवानां परजयनिमित्तम् ।

 मुहूर्त्तेन चिरं कालं भवता चोभयं सुराः ।
 पराभवं च शत्रूणां भविष्यति महद्भयम् ॥
 इत्येवं नभसो वाचो महागम्भीरनिःस्वनाः ।


  1. २ अ.२ श्लो.।
  2. ३ अ, ३ श्लो. ।
  3. २ अ. १५ श्लो. ।
  4. § १३४ अ. १२ श्लो. ।
  5. उक्तस्थले नोपलभ्यते ।
  6. ५६ अ. १४ श्लो. ।
  7. ५८ अ. ५२-५३ श्लो. ।