पृष्ठम्:अद्भुतसागरः.djvu/४९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८२
अद्भुतसागरे ।
अथ दिव्यस्त्रीपुरषदर्शनाद्भुतावर्त्तः ।

गार्गीये ।

 दिव्यस्त्रीपुरुषयोर्यत्र भूतगन्धर्वयोस्तथा ।
 दर्शनं च विमानस्य नगरे यदि लक्ष्यते ॥
 सामान्यपुरराष्ट्रस्य दुर्गकोषान्वितस्य च ।
 तदा महीपतेस्तत्र विनाशो भवति ध्रुवम् ॥

नगरे राजधान्याम् । अन्यत्र तु देशानुपरम् ।
तथा औशनसे ।

 दर्शनं देवयोनीनामसद्रूपस्य वा नृभिः ।
 तद्देशस्य विनाशाय तत् प्राहुर्यस्य दर्शनम् ॥

पराशरः ।

 रक्षःपिशाचपतङ्गैः पथिरोधनं जनमारभयाय ।

बार्हस्पत्ये ।

 रक्षःपतङ्गैः पन्थानो न वहन्ते भयान्विताः ।
 रक्षोरूपाणि दृश्यन्ते वनरथ्यागृहेष्वपि ॥
 संप्रदृष्टैः पिशाचैर्वा रक्षोभिर्वाऽपि तापते ।
 नगरं त्वचिरात् कालाज्जनमारेण वाध्यते ॥

उत्तरकाण्डे माल्यवदादिवधनिमित्तम् ।

 “अट्टहासान् विमुञ्चन्तो घननादसमस्वानाः ।
 वाश्यन्तश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥
 भूताः परिपतन्ति स्म दृश्यन्ते तु सहस्रशः"[१]

मौशले वृष्णिक्षयनिमित्तम् ।

 "करालो विकटो मुण्डः परुषः कृष्णपिङ्गलः ।


  1. वाल्मीकीये उक्तकाण्डे ६ सर्गे ५५-५६ श्लो. । तत्र 'संपतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम्' इति पाठः ।