पृष्ठम्:अद्भुतसागरः.djvu/४९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८१
पुराद्भुतावर्त्तः ।

 एकाद्यङ्गुलसंस्थैर्व्रणैः फलं निर्दिशेत् क्रमशः ॥
 सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधनलाभौ ।
 क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥
 लब्धिर्हानिः स्त्रीलब्धयो वधो वृद्धिमरणपरितोषाः ।
 ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥
 वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम् ।
 ऐश्वर्यमृत्युराज्यानि च क्रमात् त्रिंशदिति यावत् ॥

विष्णुधर्मोत्तरे चापलक्षणे ।

व्रणानां लक्षणं चास्य भविष्यति तु खड्गवत् ।

अत्र शस्त्रज्वालनेऽग्न्यद्भुतावर्त्तलिखिताऽऽग्नेयी[१]शान्तिः कर्त्तव्या इति ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्कर श्रीमद्वाल्लालसेनदेवविरचितेऽद्भुतसागरे शस्त्राद्भुतावर्त्तः



अथ पुराद्भुतावर्त्तः ।

तत्र पराशरः ।

साधुद्विजविहङ्गशूरपतिधार्मिकैः पुरपरित्यागः पुरविनाशाय ।

भागवते कृष्णोत्क्रान्तिनिमित्तम् ।

 “इमे जनपदग्रामाः पुरोद्यानकराश्रमाः ।
 भ्रष्टश्रियो निरानन्दाः किमिदं दर्शयन्ति नः"[२]

मौशले वृष्णिक्षयनिमित्तम् ।

 “प्रविद्धभूषिका रथ्या विभिन्नफणिकास्तथा"[३]

अत्रापि सावित्रीमन्त्रकलक्षहोमादिका सामान्या शान्तिः कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे पुराद्भुतावर्त्तः ।


  1. २ अ. ५ श्लो. ।
  2. द्रष्टव्याऽस्यैव ग्रन्थस्य ११ पृ.२ पं ।
  3. नोक्तस्थलेऽस्योपलब्धिः।