पृष्ठम्:अद्भुतसागरः.djvu/४८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७८
अद्भुतसागरे ।

 धावन्ते यदि शस्त्राणि निपतन्त्युत्पतन्ति च ।
 तूणीरात् सहसा वाणा उद्गिरन्ति नदन्ति वा ॥
 शुभा वाऽथापि मूर्छन्ति धनूंषि प्रलपन्ति च ।
 येषु देशेषु तेषु स्यात् संग्रामस्तुमुलात्मकः ॥

वार्हस्पत्ये ।

 ज्वलन्ति यदि शस्त्राणि विनमन्त्युन्नमन्ति च ।
 कोशेभ्यश्च विनिर्यान्ति संग्रामस्तुमुलो भवेत् ॥
 गर्जन्त्यायुधशस्त्राणि दहन्ति व्याहरन्ति वा ।
 धनुर्वा सहसा बाणाः संग्रामस्तुमुलो भवेत् ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 आयुधेषु प्रदीप्तेषु धूमायत्सु तथैव च ।
 निर्यात्सु कोशाच्च तथा संग्रामस्तुमुलो भवेत् ॥
 शुभा वाऽथापि मूर्छन्ते धनूंषि विकृतानि च ।
 विकारश्चायुधानां स्यात् तत्र संग्राममादिशेत् ॥

वराहसंहितायां ।

आयुधज्वलनसर्पणस्वनाः कोशनिर्गमनवेपनानि वा ।
वैकृतानि यदि वाऽऽयुधेऽपराण्याशु रौद्ररणसंकुलं वदेत् ॥

औशनसे ।

 नाराचाः शक्तयः खड्गाः प्रदीप्यन्ते यदा मुहुः ।
 तदा शस्त्रभयं तेषु देशेषु[१] च विनिर्दिशेत् ॥

मत्स्यपुराणे देवासुरयुद्धनिमित्तम् ।

 "ततो जज्वलुरस्त्राणि......"[२]

भीष्मपर्वणि च कुरुपाण्डवयुद्धनिमित्तम् ।

 "निश्चेरुरचिर्षश्चापात् खड्गाश्च ज्वलिता भृशम् ।


  1. त्रीणि वर्षाणि निर्दिशेदिति क्व चित् पाठः ।
  2. १५३ अ. १७५ श्लो. ।