पृष्ठम्:अद्भुतसागरः.djvu/४८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७९
शस्त्राद्भुतावर्त्तः ।

 व्यक्तं पश्यन्ति रूपाणि संग्रामं समुपस्थितम्”[१]

आदिपर्वणि गरुडयुद्धनिमित्तम् ।

 "इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात् ततः ।
 सधूमान्यपतन् सार्चिर्दिवोल्का नभसश्च्युताः ॥
 तथा वसूनां रुद्राणामादित्यानां च सर्वशः ।
 साध्यानां मरुतां चैव ये चान्ये देवता गणाः ।
 स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्"[२]

अरण्यकाण्डे रामवाक्यम् ।

 “सधूमा इषवश्चेमे महायुद्धाभिनन्दिनः ।
 रुक्मपृष्टमिदं चापि चापं विस्फुरतीव मे ॥
 संप्रहारं सुतुमुलो भवितेह न संशयः” [३]
द्रोणपर्वणि द्रोणवधनिमित्तम् ।
"जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष"[४]
तत्रैव द्रोणवाक्यम् ।
 "उत्पतन्त इमे बाणा धनुः प्रस्फुरतीव मे ।
 योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्त्तते मनः"[५]

क्रूरं संयोमस्त्राणि नेच्छन्तीति पराजयनिमित्ताभिधानम् ।
स्कन्दपुराणे देवासुरयुद्धनिमित्तम् ।

 धूमायते इन्द्रवज्रम् ........।

तथा ।

 नागा इव शराश्चास्य निर्वेमुर्ज्वलनं मुखे ।


  1. ३ अ. २१ श्लो. ।
  2. ३२ अ. ३४२ श्लो. ।
  3. वाल्मीकीये २४ सर्गे ५-६ श्लो. । तत्रायं पाठः ।
  4. ११२ अ १९ श्लो.।
  5. नोक्तस्थले उपलभ्यते ।