पृष्ठम्:अद्भुतसागरः.djvu/४८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७४
अद्भुतसागरे ।

 विनश्यति सुतस्तस्य वर्षस्याभ्यन्तरेण तु ॥
 अष्टोत्तरसहस्रं स्यादश्वत्थसमिधां ततः ।
 हव्यं रौद्र्याऽथ गायत्र्या गौर्देया विप्रभोजनम् ॥

तत्रैव ।

 शब्देन काञ्जिकस्यापि गृहिणीमरणं भवेत् ।
 तद्भाण्डं चातिवारि स्याद्राज्ञो मरणमादिशेत् ॥
 षड्भिर्मासैर्न संदेह उपोष्य जुहुयात् ततः ।
 दधिमधुघृताक्तानामयुतं जुहुयाच्छुचिः ॥
 वैकङ्गतस्य विप्राय दानं गौः कांस्यमेव च ।
 दर्वी वा मुशलं वाऽपि ताम्रं दद्याच्च दक्षिणाम् ॥

नारदः ।

 काञ्जिकोद्वमने शब्दे प्रस्वेदे कम्पने तथा ।
 गृहं तत्र प्रलीयेत गृहिणी म्रियते तथा ॥

कम्पादिविहिता नारदोक्ता शान्तिरत्र कर्त्तव्या ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे वातजोपस्कराद्यद्भुतावर्त्तः ।

अथ वस्त्रोपानहासनशयनाद्भुतावर्त्तः ।

तत्र पराशरः ।
 अथ वाससां शुभाशुभैष्यत्फलसूचकमकस्मान्मषीकर्दमाञ्जनरुधिरगोमयैरुपरागस्तथाऽऽखुकोटगो-जन्तुभिरवभक्षणं पाटनं च काष्टकण्टकैर्दाहो वा वह्निना भवति तद्विज्ञानलक्षणमुपदेक्ष्यामः । तत्र प्राग्देशं प्रत्यक्पाशं नवधा वस्त्रं विभजेत् त्रिवंशम् । तदंशेषु तेषु क्रमात् फलनियमः । अर्थहानिरर्थागमो धनक्षयः स्त्रीविनाशः पत्र