पृष्ठम्:अद्भुतसागरः.djvu/४८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७३
वातजोपकारद्यद्भुतावर्त्तः ।

तत्रैव ।

 वृषी[१]वा भद्रपीठं वा शयनासनमेव च ।
 अस्पृष्टा यान्ति खे यत्र तत्र विद्यान्महद्भयम् ॥
 प्राजापत्या ततः शान्तिरभीक्ष्णकलहोदिता ।
 काष्ठानां चलने सद्यो भयं भवति देहिनाम् ॥
 म्रियते तु सुतस्तस्य गायत्र्या हव्यमेव तु ।
 श्रीफलस्य समिल्लक्षं दक्षिणा गौर्द्विजन्मने ॥

तत्रैव ।

 शिलामुशलकांस्यानि निपतन्त्युत्पतन्ति च ।
 तिलदूर्वायुतं हव्यं दानं गोकांस्यमेव च ॥

तत्रैव ।

 दर्वी वा मुशलं चापि यदि वा यान्त्युदूखलम् ।
 सार्थवाहजनश्रेष्ठिसचिवानां वधो भवेत् ॥
 प्राजापत्या ततः शान्तिरभीक्ष्णकलहोदिता ।

वैजवायः ।

 तत्र चरोश्च दर्व्याश्च प्राकारे भेदनादिके ।
 उदूखलस्थो मुशलः प्रपतेदनिमित्ततः ॥
 एष्वद्भुतेषु कर्त्तव्या शान्तिश्चैन्द्री यथोदिता ।

मयूरचित्रे ।

 अथ युक्तमयुक्तं वा यानं युग्यं प्रधावति ।
 भयं तत्र प्रदेष्टव्यममात्यस्य वधस्तथा ॥
 श्रेष्ठिनां सार्थवाहानां वधोऽन्यस्य जनस्य च ।
 प्राजापत्या ततः शान्तिरभीक्ष्णकलहोदिता ॥

तत्रैव ।

 चलने तोयभाण्डस्य प्रणाशात् स्थानवर्जनात् ।


  1. आसनविशेषः । 'मुनीनामासनं वृषी' इति कोषप्रामाण्यात् ।