पृष्ठम्:अद्भुतसागरः.djvu/४७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६८
अद्भुतसागरे ।

पराशरः ।

अन्तर्वेश्मन्यशरीरगीतवादित्रनिःस्वनैस्तरस्वामिविनाशं विन्द्यात् ।

औशनसे ।

 श्रूयते यस्य गेहेषु गीतवादित्रनिःस्वनाः ।
 अकस्मान्म्रियते सम्यग्धनं चास्य विलुप्यते ॥
 अनाहता दुन्दुभयो वादित्राणि नदन्ति च ।
 छत्राणि च गृहे यस्य स तु शीघ्रं विनश्यति ॥

मत्स्यपुराणविष्णुधर्मोत्तरयोः ।

 विकृते वातजे वाऽपि वायव्या शान्तिरिष्यते ।

वायव्या शान्तिर्वाताद्भुतावर्त्ते[१] लिखिता ।
वराहसंहितायाम् ।

 अङ्गारगैरिकाद्यैर्विकृतप्रेताभिवेशनं यस्मिन् ।
 नायकविचित्रमथ वा नृपः क्षयं याति नचिरेण ॥
 महाशान्त्योऽथ वलयो भोज्यानि सुमहान्ति च ।
 कारयीत महेन्द्रं च माहेन्द्रीं च समर्चयेत् ॥

एतेषां फलपाकसप्रयं पाकावर्त्ते वक्ष्यामः ।

इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे गृहाद्यद्भुतावर्त्तः ।

अथ वातजोपस्कराद्यद्भुतावर्त्तः ।

शान्तिपर्वणि ।

“गम्भीरशब्दाश्च महास्वनाश्च शङ्का मृदङ्गाश्च नदन्ति यत्र ।
युयुत्सवश्चाप्रतीपा भवन्ति जयस्यैतद्भाविनो रूपमाहुः"[२]


  1. द्रष्टव्याऽस्यैव ग्रन्थस्य ३५५ पृ.१७ पं. ।
  2. १०२ अ. ७-८ श्लो.।