औशनसे तु ।
सङ्खवैणववीणाश्च भेरीमुरजगोमुखाः ।
वाद्यमानाः प्रदृश्यन्ते देशे यत्राप्यघट्टिताः ॥
संभृत्यैव ततो भावमन्यं जनपदं व्रजेत् ।
मृगवाद्यैः स देशो हि वायुश्चात्रोपजायते ॥
भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।
"अनाहता दुन्दुभयः प्रणदन्ति विशां पते"[१] ।
पराशरस्तु ।
अनाहतानां वाद्यानां श्रवणमाहतानामश्रवणं महते भयाय ।
भयायेति शस्त्रभयाय ।
तथा च मत्स्यपुराणविष्णुधर्मोत्तरयोः ।
वात्यमाना न वाद्यन्ते वाद्यन्ते चाप्यनाहताः ।
आकाशे तूर्यनादाश्च गीतगन्धर्वनिःस्वनाः ॥
.........घोरं शस्त्रभयं भवेत् इति सम्बध्यते ।
बार्हस्पत्ये तु ।
भेर्यो मृदङ्गाः पटहा वाद्यन्ते चाप्यनाहताः ।
आहताश्च न वाद्यन्ते अबलानि बलानि च ॥
परचक्रभयं तत्र राज्ञो वा व्यसनं भवेत् ।
व्यसनं मरणम् ।
वराहसंहितायाम् ।
अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् ।
व्युत्पत्तौ वा तेषां परागमो नृपति मरणं वा ॥
व्युत्पत्तिर्विकृता उत्पत्तिः । सा चान्यजातीयशब्दोत्पत्तिर्दुःश्रुतिशब्दोत्पत्तिर्वा ।
अल्पमहत्प्रबलयोर्महदल्पशब्दोत्पत्तिर्वा ।
औशनसे तु ।
शङ्खवैणवतूर्याणां दुन्दुभीनां च निःस्वनाः ।
- ↑ २ अ,२७ श्लो. ।