पृष्ठम्:अद्भुतसागरः.djvu/४७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६६
अद्भुतसागरे ।

 धनं तस्य प्रणश्येत् तु षड्भिर्मासैर्न संशयः ।
 चरुं च यमदैवत्यं शतमेकं जुहोति च ॥
 तिलैर्धान्यैर्यवैश्चैव घृतेन मधुना सह ।
 जुहुयात् पञ्च सहस्राणि शक्तिबीजेन मन्त्रवित् ॥
 कलायैश्चैव माषैश्च मुद्रैश्च सिततण्डुलैः ।
 घृतेन दधिना चैव कुण्डे तत्र निवेदनम् ॥
 सम्पूर्णाँस्तु शरावाँश्च पत्रेणैव निवेदयेत् ।
 परिधायाहतं वासो जप्त्वा मन्त्रं समाहितः ॥
 अष्टोत्तरशतं जप्त्वा पत्रं वा श्रीफलस्य च ।
 दशावर्त्तं तु तेनेव शिखायां धारयेत् ततः ॥
 हविष्यभुग्भवेत् तावद्यावद्धोमः समाप्यते ।
 एकरात्रोषितो भूत्वा गृहं विप्राय दापयेत् ॥
 मूलेनैव ततः कृत्वा स्नापयेत् कलशेन तु ।
 धेनुं च दक्षिणां दद्याद्वस्त्रयुग्मं सकाञ्चनम् ॥
 भोज्यं तु कारयेत् तत्र ततः सम्पद्यते शुभम् ।

मयूरचित्रे ।

 गृहीत्वा तु शवस्याङ्गमन्ये तु मृगपक्षिणः ।
 प्रविशन्ति गृहे यस्य षड्भिर्मासैर्विनश्यति ॥
 आज्यहोमो महादानं तत्र शान्त्यै प्रवक्ष्यते ।

नारदः ।

 यस्य गेहे शृगालादिः प्रविष्टोऽथ प्रसूयते ।
 गृहं तस्य विनश्येत प्रभुर्वा म्रियते पुनः ॥
 पत्नी वा म्रियते तस्य पुत्रस्य मरणं भवेत् ।